________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२२८॥
इति श्रुत्वा पूर्णभद्रमाणिभद्रौ तदाप्तया । जातिस्मृत्याबोधयतां चंडालं शुनिकां च ताम् ।। १९२ ॥ ततो विरक्तश्चंडालो मासं सोऽनशने स्थितः । मृत्वा नंदीश्वरद्वीपे त्रिदशः समजायत ।। १९३ ।। प्रबुद्धा शुनिका सापि विहितानशना मृता । तत्रैवाभूच्छंखपुरे राजपुत्री सुदर्शना ।। १९४ ।। पुनरप्यागतस्तत्र महेन्द्रर्षि शशंस ताम् । पृष्टोऽर्हद्दासपुत्राभ्यां शुनीचंडालसद्गतिम् ।। १९५ ।। ताभ्यां भूयोऽपि सा राजदुहिता प्रतिबोधिता । उपादाय परिव्रज्यां देवलोकमुपाययौ ।। १९६ ॥ पूर्णभद्रमाणिभद्रौ गृहिधर्मं तु तौ तदा । कृत्वा मृत्वा च सौधर्मेऽभूतां सामानिकौ सुरौ ।। १९७ ।। च्युत्वा च हस्तिनपुरे विष्वक्सेनस्य भूपतेः । मधुकैटभनामानावभूतां तनयावुभौ ।। १९८ ।। नंदीश्वरसुरः सोऽपि च्युत्वा भ्रांत्वा भवं चिरम् । अभूद्वटपुरे राजा नामतः कनकप्रभः ।। १९९ । च्युत्वा सुदर्शना सापि भवं भ्रांत्वा च भूरिशः । कनकप्रभराजस्य चंद्राभेति महष्यभूत् ॥। २०० ।। विष्वक्सेनो मधुं राज्ये यौवराज्ये च कैटभम् । निधाय व्रतमादाय ब्रह्मलोकमुपागतः ॥ २०१ ॥ वशीकृताशेषभुवोर्मधुकैटभयोस्तयोः । पल्लीपतिच्छ्लादेव भीमो देशमुपाद्रवत् ॥ २०२ ॥ मधु प्रतस्थे तं हंतुं मार्गे वटपुरेऽथ सः । अभ्यर्चितो भोजनाद्यैः कनकप्रभभूभुजा ।। २०३ ।। स सेवकः स्वामिभक्त्या पल्या चंद्राभया समम् । उपतस्थे भोजनांते प्राभृतेन मधुं नृपम् ॥ २०४ ॥
अष्टमं पर्व
षष्ठः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
प्रद्युम्नपूर्वभवः ।
॥ २२८ ॥