________________
त्रिषष्टिशलाकापुरुषचरिते IR२७॥
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
प्रद्युम्न
च्युत्वाभूतां गजपुरेऽर्हद्दासर्वणिजः सुतौ । पूर्णभद्रमाणिभद्रौ श्रावको प्राग्भवक्रमात् ।। १७९ ।। माहेन्द्रो नाम तत्रर्षिरन्यदा समवासरत् । अर्हद्दासः प्रवव्राज श्रुत्वा धर्म तदंतिके ।। १८० ॥ पूर्णभद्रमाणिभद्रौ माहेन्द्रं वदितुं मुनिम् । यांतौ शुनिकां चंडालं दृष्टवा सिष्णिहतुः पथि ।। १८१ ॥ गत्वा नत्वा महेन्द्रर्षि तौ पप्रच्छतुरेष कः । चंडालः का च शुनिका स्नेहो यद्दर्शनेन नौ ।। १८२ ।। स आचख्यावग्निभूतिवायुभूतिभवे हि वाम् । पिता विप्रः सोमदेवोऽभवन्माताग्निलाभिधा ।। १८३ ।। पिता स मृत्वा भरतेऽत्रैव शंखपुरे ऽभवत् । जितशत्रुर्नाम नृपः परदाररतः सदा ।। १८४ ।। मृत्वाग्निला तु तत्रैव पुरे शंखपुरेऽजनि । सोमभूतेब्राह्मणस्य रुक्मिणी नाम गेहिनी ।। १८५ ॥ तां स्वगेहांगणगतां जितशत्रुर्नृपोऽन्यदा । व्रजन् ददर्श सद्योऽपि जज्ञे कामवशंवदः ।। १८६ ।। उत्पाद्यागः सोमभूतेस्तां राजांतःपुरे न्यधात् । सोऽग्निमग्न इवास्थात्तु द्विजस्तद्विरहातुरः ।। १८७ ।। जितशत्रुस्तया रत्वा सहस्रं शरदामथ । मृत्वा बभूव नरके त्रिपल्योपमजीवितः ।। १८८ ॥ ततश्च हरिणः सोऽभूद्धतो मृगयुना पुनः । जज्ञे श्रेष्ठिसुतो मायी सोऽपि मृत्वाभवद्गजः ।। १८९ ।। दैवाज्जातिस्मरः सोऽभूत्नायं कृत्वा मृतोऽहनि । अष्टादशे त्रिपल्यायुर्वैमानिकसुरोऽभवत् ।। १९० ।। ततश्च्युत्वैष चंडालः सोऽभूत्सा रुक्मिणी पुनः । भवं भ्रांत्वाभूच्छुनीयं तेन वां स्नेह एतयोः ।। १९१ ।। १ अपराधं । २ अनशनम् ।
पूर्वमवः ।
॥ २२७॥