________________
त्रिषष्टिशलाकापुरुषचरिते IR२६॥
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्ट
नेमिजिन
चरितम् ।
प्रभाते हालिकः सोऽपि सर्वं तत्प्रेक्ष्य भक्षितम् । गतः स्वगेहे कालेन मृत्वाभूतु स्वस्नुषासुतः ।। १६६ ।। जातिस्मरत्वं संप्राप्तः स्नुषा माता सुतः पिता । कथं वाच्यो मयेत्यासीज्जन्ममूकः सकैतवात् ।। १६७ ॥ न चेद्वां प्रत्ययस्तत्तं पृच्छतं मूकहालिकम् । वृत्तांतमेनं स यथा मौनं मुक्त्वा ब्रवीति वाम् ।। १६८ ॥ लोकेन सद्योऽप्यानीतः स मौनी तत्र हालिकः । ऊचे च मुनिना ब्रूहि प्राग्जन्म निजमादितः ।। १६९ ।। पुत्रः पिता पिता पुत्र ईदृक् प्रायो भवस्थितिः । प्राग्जन्मसंबंधभवां ह्रियं मौनं च तत्त्यज ।। १७० ॥ आत्मसंवादमुदितः स नमस्कृत्य तं मुनिम् । सर्वेषां श्रृण्वतामाख्यत् प्राग्जन्म स्वं तथैव हि ।। १७१ ॥ प्राव्रजन बहवस्तत्र प्रबुध्य स च हालिकः । हास्यमानौ जनैस्तौ तु विलक्षौ जग्मतुर्गृहम् ।। १७२ ।। विप्रौ वैरायमाणौ तौ सासी हंतुं तु तं मुनिम् । निश्यायातौ सुमनसा यक्षेण स्तंभितौ क्षणात् ।। १७३ ।। प्रातश्च ददृशुर्लोकास्तन्मातापितरौ च तौ । क्रंदतौ सुमना यक्षः प्रत्यक्षमिदमभ्यधात् ।। १७४ ॥ एतौ मुनि जिघांसंतौ दुर्मती स्तंभितौ मया । प्रव्रज्यां यदि गृह्णीतस्तदा मुंचामि नान्यथा ॥ १७५ ॥ दुष्करः साधुधर्मो नौ धर्म तु श्रावकोचितम् । करिष्याव इति ताभ्यामुक्ते मुक्तौ सुरेण तौ ।। १७६ ॥ तदादि चक्रतुस्तौ तु जिनधर्म यथाविधि । नार्हद्धर्म तत्पितरौ प्रपेदाते मनागपि ॥ १७७ ।। अग्निभूतिवायुभूती तौ मृत्वाभवतां सुरौ । षट्पल्यप्रमितायुष्कौ कल्पे सौधर्मनामनि ।। १७८ ।। १ स्नुषा पुत्रवधूः । २ खगसहितौ ।
प्रद्युम्नपूर्वभवः ।
॥ २२६ ॥