________________
त्रिषष्टिशलाकापुरुषचरिते IR२३॥
| अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्ट| नेमिजिनचरितम् ।
सत्यभामापि तच्छुत्वा विलक्षा क्रोधविह्वला । गृहं यांत्येव सुषुवे भानुकं नामतः सुतम् ।। १२७ ॥ कृष्णोऽपि मुदितोऽगच्छद्रुक्मिण्याः सदने तदा । अर्वाक्सिंहासनासीन आनाय्यापश्यदात्मजम् ।। १२८ ।। प्रद्योतयन् दिशः सर्वाः प्रद्युम्नोऽस्त्वेष नामतः । तमित्युल्लापयन् बालं क्षणमस्थाज्जनार्दनः ।। १२९ ॥ प्राग्वैराद्रुक्मिणीवेषो धूमकेतुसुरस्तदा । एत्य कृष्णाद्गृहीत्वा प्रति वैताढ्यमभ्यगात् ।। १३० ।। ययौ च भूतरमणोद्याने टंकशिलोपरि । दध्यौ चैनं किमास्फाल्य हन्मि नैवं स दुःखभाक् ।।१३१ ।। तन्मुञ्चामि शिलापृष्ठे निराहारः क्षुधातुरः । क्रंदन्नेष म्रियेतेति तं तत्रोत्सृज्य सोऽगमत् ।। १३२ ।। सोऽर्भश्चरमदेहत्वान्निरुपक्रमजीवितः । बहुपर्णाचिते देशे निःपपाताविबाधितम् ।। १३३ ॥ प्रातश्चाग्निज्वालपुरात् स्वपुरं गच्छतः सतः । यानं तत्रास्खलत् कालसंचरस्य खचारिणः ।।१३४ ।। विमानस्खलने हेतुं खेचरेन्द्रः स चिंतयन् । अधस्तादुत्ततारा तं चापश्यन्महाद्युतिम् ।। १३५ ।। विमानस्खलने हेतुर्महात्मा कोऽप्यसाविति । पल्यै कनकमालायै पुत्रत्वेनार्पयत् सुतम् ।। १३६ ।। स्वपुरे मेघकूटाख्ये स गत्वा खेचरोऽवदत् । मत्पत्नी गूढगर्भासीत्तनयं सुषुवेऽधुना ।। १३७ ।। पुत्रजन्मोत्सवं कृत्वा संवरः सुदिनेऽकरोत् । दिशां प्रद्योतनात्तस्य प्रद्युम्न इति चाभिधाम् ।। १३८ । इतश्च कृष्णो रुक्मिण्योपेत्याप्रच्छि क्व ते सुतः । संप्रत्येव त्वया नीत इत्यूचे सा च विष्णुना ।। १३९ ॥ १ बालं । २ निरुपक्रमं जीवितं यस्य सः ।
कृष्णपुत्रप्रद्युम्नजन्म तद्धरणं च।
॥ २२३॥