________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२२२ ॥
तदा दुर्योधनो राजा तत्रायातः स्वसोदरः । भामयोचे मम सुतो जामाता ते भविष्यति ।। ११४ ।। रुक्मिण्यापि तथोक्तः स्माह दास्ये सुतामहम् । तस्मै यं युवयोरेका तनयं प्रसविष्यते ।। ११५ ॥ भामोवाच सुतो यस्याः प्रथमं परिणेष्यति । तद्विवाहेऽन्यया केशा देयास्तस्याः स्वकाः खलु ॥ ११६ ॥ साक्षिणः प्रतिभुवश्च रामपादा जनार्दनः । दुर्योधनश्चेत्युदित्वा स्वौको द्वे अपि जग्मतुः ।। ११७ ।। अन्यदा रुक्मिणी स्वप्ने बलक्षवृषभस्थिते । विमाने स्वं समारुढं ददर्श प्रत्यबोधि च ।। ११८ ।। तदानीमेव च सुरो महाशुक्रान्महर्द्धिकः । प्रच्युतो रुक्मिणीदेव्या उदरे समवातरत् ।। ११९ ।। तं च स्वप्नं हरे रुक्मिण्याचख्यौ प्रातरुत्थिता । विश्वैकवीरस्ते सूनुर्भावीति व्याकरोच्च सः ।। १२० ॥ तदा च दासी भामायाः स्वप्नव्याख्यां निशम्य ताम् । गत्वा शशंस भामायै तस्याः श्रवणदुःखदाम् ॥ १२१ ॥ सापि स्वप्नं कल्पयित्वोपेत्याख्याच्छार्ङ्गपाणये । हस्तिमल्लोपमो हस्ती स्वप्नेऽद्य ददृशे मया ॥ १२२ ॥ तत्कूटमिंगितैर्ज्ञात्वाप्यसौ मा कुप्यदित्यथ । व्याख्यात्कृष्णस्तव सुतो भविष्यति शुभः खलु ।। १२३ ।। दैवात्तदाभवत्तस्या गर्भोऽवर्धिष्ट चोदरम् । रुक्मिण्युत्तमगर्भत्वाद्यथावस्थोदरा त्वभूत् ॥ १२४ ॥ सत्यभामान्यदा विष्णुमुवाच तव पल्यसौ । शशंस मायया गर्भं निरीक्षस्वोदरं द्वयोः ।। १२५ ॥ तदा चावर्धयत् कृष्णं दास्येका यत्सुतोऽधुना । सुषुवे रुक्मिणीदेव्या महात्मा कांचनप्रभः ।। १२६ ॥
१ बलक्षः श्वेतः ।
अष्टमं पर्व षष्ठः
सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
कृष्णपुत्र
प्रद्युम्न
जन्म ।
॥ २२२ ॥