________________
अष्टमं पर्व
त्रिषष्टिशलाकापुरुषचरिते IR२१॥
| सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
हिरण्यनाभनृपते रैवतो नामतोऽग्रजः । प्रवव्राज समं पित्रा तीर्थे भगवतो नमः ।। १०१ ॥ तत्सुता रेवती रामा सीता बंधुमतीति च । पुरा प्रदत्ता रामाय रोहिणीतनुजन्मने ।। १०२ ॥ सर्वेषां पश्यतां राज्ञां जड़े पद्मावती हरिः । स्वयंवरागतानाज्ञो युध्यमानाजिगाय च ।। १०३ ॥ पत्नीयुतौ रामकृष्णावीयतुर्धारकां ततः । कृष्णो गौरीगृहाभ्यर्णे गृहे पद्मावती न्यधात् ।। १०४ ।। इतश्च पुष्कलावत्यां पुर्यां गांधारनीवृति । नग्नजित्तनयश्चारुदत्तो नामाभवन्नृपः ।। १०५ ॥ गांधारी नाम तस्यासीद्भगिनी सुभगाकृतिः । दत्तपत्रेव लावण्यसंपदा खेचरीष्वपि ॥ १०६ ।। मृते पितरि दायादैश्चारुदत्तः पराजितः । दूतेन शिश्रिये कृष्णं शरण्यं शरणाय सः ।। १०७ ।। गंधारेषु हरिर्गत्वा तद्दायादान् रणेऽवधीत् । चारुदत्तप्रदत्तां च तां गांधारीमुपायत ।। १०८ ॥ पद्मावतीगृहाभ्यर्णे तस्या वेश्म ददौ हरिः । इत्यभूवन्महिष्योऽष्टौ कृष्णस्य क्रमवेश्मगाः ॥१०९ ॥ रुक्मिण्याश्च गृहेऽन्येधुरतिमुक्तर्षिरागतः । तं दृष्ट्वा सत्यभामापि तत्रैवाशु समाययौ ॥११०॥ रुक्मिण्याप्रच्छि स मुनिः किं मे स्यात्तनयो न वा । भावी कृष्णसमः पुत्रस्तवेत्युक्त्वा ययौ च सः ।।१११ ॥ सत्यभामा मुनिवचो मन्यमाना तदात्मगम् । उवाच रुक्मिणी सूनुर्भावी कृष्णसमो मम ।। ११२ ॥ प्रत्यूचे रुक्मिणी नर्षिवचनं फलति च्छलात् । एवं विवदमाने ते कृष्णाभ्यर्णमुपेयतुः ।। ११३ ॥ १ गांधारदेशे । २ दत्तं पत्रं प्रशस्तिपत्रं यस्याः सा ।३ न ऋषी ।
कृष्णस्य पद्मावतीगान्धारीभ्यां विवाहः ।
||२२१॥