________________
त्रिषष्टिशलाकापुरुषचरिते IR२०॥
अष्टमं पर्व षष्ठः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
नाभ्यनंदत्तवादेशं श्लक्ष्णरोमास्ति तस्य तु । कन्यका लक्ष्मणा नाम तवैवार्हति लक्षणैः ।। ८८ ॥ द्रुमसेनेन सेनान्या रक्षिता स्नातुमर्णवे । सेदानीमाययौ सप्तरात्रं स्नास्यति तत्र च ।। ८९ ।। श्रुत्वेति सह रामेण कृष्णस्तत्र जगाम च । निहत्य तं च सेनान्यमगादादाय लक्ष्मणाम् ।। ९० ।। उदूह्य लक्ष्मणां कृष्णो जांबवत्योकसोऽन्तिके । निदधे रत्नसदने प्रददौ च परिच्छदम् ।। ९१ ।। इतश्चायुस्खरीपुर्यां सुराष्ट्राराष्ट्रभूपतिः । राष्ट्रवर्धन इत्यासीद्विनया तस्य तु प्रिया ।। ९२ ।। तयोश्च नमुचिः सूनुर्युवराजो महाभुजः । दुहिता तु सुसीमेति निःसीमा रुपसंपदा ।। ९३ ॥ नमुचिः सिद्धदिव्यास्त्रः कृष्णाज्ञां न ह्यमन्यत । स्नातुं प्रभाते सोऽन्येधुर्ययौ सह सुसीमया ॥ ९४ ।। निवेश्य शिबिरं तत्र स्थितं विज्ञाय तं हरिः । जघान सबलोऽभ्येत्य सुसीमामाददे च ताम् ।। ९५ ।। तामप्युद्वाह्य गोविंदो लक्ष्मणासदनांतिके । मुमोच हर्ये तस्यै च प्रक्रियां महतीं ददौ ।। ९६ ।। राष्ट्रवर्धनराजोऽपि सुसीमायै परिच्छदम् । प्राहिणोत् कृष्णहेतोश्च विवाहार्थं गजादिकम् ।। ९७ ॥ मरौ वीतभयेशस्य गौरी कन्यामुपायत । हरिः सुसीमागेहस्योपांतगेहे मुमोच च ।। ९८ ॥ अथारिष्टपुरे कृष्णः प्रययौ हलिना सह । हिरण्यनाभदुहितुः पद्मावत्याः स्वयंवरे ।। ९९ ।। राज्ञा हिरण्यनाभेन रोहिणीसोदरेण तौ । पूजितौ विधिवद्वीरौ जामेयाविति संमदात् ।। १०० ॥ १ रीहिणी राममाता।
कृष्णस्य लक्ष्मणासुसीमाभ्यां विवाहः ।
।। २२०॥