________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२१९ ॥
हसित्वा हरिरप्यूचे को दोषः स्वसृवन्दने । सत्या विलक्षा गेहेऽगादुक्मिणीं नतपूर्विणी ।। ७५ । रुक्मिण्यै महतीमृद्धिं ददौ कंसनिषूदनः । प्रेमपीयूषनिर्मग्नो रेमे च सहितस्तया ॥ ७६ ॥ कृष्णेनान्येद्युरायातो नारदोऽभ्यर्च्य भाषितः । किं दृष्टं किंचिदाश्चर्यं भ्रमसि त्वं हि तत्कृते ।। ७७ ।। नारदोऽप्यब्रवीद्दृष्टं श्रृणु वैताढ्यपर्वते । जांबवान् खेचरेन्द्रोऽस्ति शिवचंद्रा च तत्प्रिया ॥ ७८ ॥ विष्वक्सेनस्तयोः सूनुः कन्या जांबवती पुनः । रुपेण तस्याः सदृशी न कापि त्रिजगत्यपि ।। ७९ । क्रीडार्थं सा च गंगायां नित्यं हंसीव गच्छति । आश्चर्यभूतां तां दृष्टवा तवाख्यातुमिहागमम् ॥ ८० ॥ तच्छ्रुत्वा शार्ङ्गभृत्तत्र ययौ सबलवाहनः । सखीवृतां जांबवतीं रममाणां ददर्श च ॥ ८१ ॥ यथोक्ता नारदेनेयं तथैवेति वदन् हरिः । अपाहरज्जांबवतीं जज्ञे च तुमुलो महान् ॥ ८२ ॥ खड्गखेटक भृच्चागाज्जांबवान् क्रोधमुद्वहन् । जिग्येऽनाधृष्टिना चाशु निन्येऽभ्यर्णे च शार्ङ्गिणः ॥ ८३ ॥ तां जांबवाञ्जांबवतीं ततश्चादत्त शार्ङ्गिणः । अपमानाद्विरक्तस्तु प्रव्रज्यां स्वयमाददे ।। ८४ ।। जांबवत्सूनुना विष्वक्सेनेन सहितो हरिः । आदाय तां जांबवतीं जगाम द्वारकापुरीम् ॥ ८५ ॥ रुक्मिणीसदनाभ्यर्णे तस्या हर्म्यं ददौ हरिः । योग्यमन्यच्च सा त्वासीद्रुक्मिण्या सह सख्यभाक् ॥ ८६ ॥ अन्यदा सिंहलेशस्य लक्ष्णरोम्णोऽन्तिके गतः । निवृत्य चागतो दूतः कृष्णायेति व्यजिज्ञपत् ॥ ८७ ॥ १ च पुनरन्यद्योग्यं दासीदासादिकं ददौ सातु रुक्मिणीसखी जाता इत्यर्थः ।
*৬
अष्टमं पर्व
षष्ठः सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
कृष्णजांबवती
विवाहः ।
॥ २१९ ॥