________________
त्रिषष्टिशलाकापुरुषचरिते IR१८॥
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
एकाकिन्यहमानीता बंदीव भवता प्रिय । हसनीया यथा तासां न भवामि तथा कुरु ।। ६२ ।। करिष्ये त्वां तदधिकामित्युक्त्वा रुक्मणी स्वयम् । सत्यभामागृहाभ्यर्णप्रासादेऽमुंचदच्युतः ।। ६३ ।। गांधर्वेण विवाहेन परिणीयाथ रुक्मिणीम् । स्वच्छंद रमयामास रजनी तां जर्नादनः ॥ ६४ ॥ जनप्रवेशं रुक्मिण्याः सदनेऽरक्षदच्युतः । स्वप्रियां मे दर्शयेति तं भामोचे च साग्रहम् ।। ६५ ।। लीलोद्याने श्रीगृहे श्रीप्रतिमां सज्जनच्छलात् । हरिरुत्सारयामास निपुणैश्चित्रकारकैः ।। ६६ ।। तत्रैत्य कृष्णः श्रीस्थाने स्थापयामास रुक्मिणीम् । देवीनामागमे तिष्ठेर्निश्चलेत्यशिषच्च ताम् ।।६७ ।। गतोऽथ कृष्णः स्वं स्थानं पप्रच्छे चेति भामया । कुत्र स्थाने त्वया मुक्ता विद्यते हंत वल्लभा ।। ६८ ॥ अस्ति सा श्रीगृहे मुक्तेत्याख्याते शार्ङ्गधन्विना । सपत्नीभिः समं सत्यभामा श्रीसदनं ययौ ॥६९ ।। श्रीस्थानस्थां तत्र दृष्टवा रुक्मिणी साब्रवीदिति । अहो रुपं श्रियो देव्याः कौशलं शिल्पिनामहो ।।७० ॥ इत्युक्त्वा तां प्रणम्योचे लक्ष्मि देवि तथा कुरु । यथा नव्यां हरेः पत्नी रुपलक्ष्म्या जयाम्यहम् ।।७१ ।। एवं जाते च ते पूजां करिष्यामीत्युदीर्य सा । जगाम पार्श्वे कृष्णस्य प्रिया ते क्वेत्युवाच च ।।७२ ।। सत्ययाथापराभिश्च सहागाच्छ्रीगृहे हरिः । रुक्मिणी तत्र चोत्थाय कां नमामीत्युवाच ॥७३ ॥ कृष्णेन दर्शिता तस्याः सत्यभामाब्रवीदिति । कथं वदिष्यतेऽसौ मामज्ञानाद्वदिता मया । ७४ ।। १ जनप्रवेश न्यषेधदित्यर्थः । २ सज्जीकरणमिषात् ।
कृष्णेन रुक्मिणीहरणम् ।
॥ २१८॥