________________
त्रिषष्टिशलाकापुरुषचरिते ।२१७॥
अष्टमं पर्व षष्ठः सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
रामोऽप्युवाच गच्छ त्वं हनिष्याम्यहमेव तान् । रुक्मिण्यप्यवदभीता त्रातव्यः सोदरो मम ।। ४९ ।। रामोऽपि कृष्णानुमतः प्रत्यपद्यत तद्वचः । योद्धं तत्रैव तस्थौ च जगाम तु जनार्दनः ।। ५० ॥ अथायतं परबलं प्रोत्क्षिप्तमुशलो बलः । मंथाचल इवांभोधि ममंथामथरो रणे ।। ५१ ॥ वज्रेणेवाद्रयः पेतुस्तस्यायोऽग्रेण दंतिनः । चूर्णसादभवंश्चापि घटकपरवद्रथाः ।। ५२ ॥ सहैव शिशुपालेन दुद्राव रुक्मिणश्चमूः । वीरमानी पुना रुक्मी बलभद्रमदोऽवदत् ।। ५३ ।। अहो दृष्टोऽसि गोपाल तिष्ठ तिष्ठाग्रतो मम । एषोऽहं ते हरिष्यामि गोपयःपानजं मदम् ।। ५४ ।। प्रतिपन्नं स्मरन्नाम संत्यज्य मुशलं शरैः । तस्याभांक्षीद्रथं वच्छिदद्रथ्याजघान च ।। ५५ ।। ततश्च रुक्मिणं रामो वध्यकोटिमुपागतम् । लूनकेशं क्षुरप्रेण कृत्वोवाच हसन्निति ।। ५६ ॥ मद्वध्वा बांधव इति न वध्योऽसि प्रयाहि रे । मुंडोऽपि हि स्वपत्नीभिर्विलसास्मत्प्रसादतः ।। ५७ ॥ एवमुक्तश्च मुक्तश्च हिया नेयाय कुडिनम् । रुक्म्यस्थात् किं तु तत्रैव न्यस्य भोजकटं पुरम् ॥ ५८ ॥ कृष्णोऽपि रुक्मिणीमूचे प्राविशन् द्वारकापुरीम् । देवीयं देवरचिता पुरी रत्नमयी मम ।। ५९ ।। सुरद्रुममयोद्यानेष्वस्यां सुभ्र मया सह । रंस्यसे त्वमविच्छिन्नं सुखं सुरवधूरिव ।।६०॥ बभाषे रुक्मिणी कृष्णं पल्यस्तव महर्द्धयः । प्रदत्ताः पितृभिः संति सहायातपरिच्छदाः ।।६१ ।। १ अमंथरोऽमंदः ।
कृष्णेन रुक्मिणी
हरणम्।
|| २१७॥