________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२१६ ॥
त्वामागां दूरतोऽप्येष द्विरेफ इव मालतीम् । कृष्णोऽहं त्वद्गुणाकृष्टो रथमध्यास्व तन्मम ॥ ३६ ॥ अनुज्ञाता पितृष्वस्रा तया तद्भावविज्ञया । आरुरोह रथं स्वांतमिव कृष्णस्य रुक्मिणी ।। ३७ ॥ ततः किंचिद्गते कृष्णे स्वदोषापोहहेतवे । पितृष्वसान्यदास्यश्च तस्याः पूच्चक्रुरुच्चकैः ॥ ३८ ॥ रुक्मिन् रुक्मिन् स्वसा तेऽसौ प्रसह्य ननु रुक्मिणी । ह्रियते तस्करेणेव सरामेणाद्य शार्ङ्गिणा ।। ३९ ॥ पांचजन्यं सुघोषं च दध्मतुस्तौ च यादवौ । यादोराशिरिवाक्षुभ्यदभितो रुक्मिणः पुरम् ॥ ४० ॥ रुक्मी च शिशुपालश्च महाबाहू महाबलौ । महासैन्यावनुपदं चेलतू रामकृष्णयोः ।। ४१ ।।
दृष्टवा च चकिता रुक्मिण्युवाचांकस्थिता हरिम् । क्रूरो महौजा मद्भ्राता शिशुपालश्च तत्समः ॥ ४२ ॥ तैद्गृह्या बहवोऽन्येऽपि वीराः संवर्मिता इह । युवां त्वेकाकिनावत्र तेन भीतास्मि का गतिः ।। ४३ ।। हसित्वा हरिप्यूचे मा भैषीः क्षत्रिया ह्यसि । केऽमी वराका रुक्म्याद्याः पश्यादः सुभ्रु मद्द्लम् ॥ ४४ ॥ इत्युक्त्वा तत्प्रत्ययार्थमर्धचंद्रेण शार्ङ्गभृत् । तालालीमेकघातेन नालपंक्तिमिवाच्छित् ।। ४५ ।। अंगुलीयकवज्रं चांगुष्ठांगुलिनिपीडनात् । दलयामास निर्भ्रष्टमसूरकणलीलया ॥ ४६ ॥ तेन पत्योजसात्यंतं रुक्मिणी प्रमदं दधौ । पद्मिनीव प्रभातार्कतेजसा विकचानना ॥ ४७ ॥ रामं बभाषे गोविंद गृहीत्वेमां वधूं व्रज । अहमेतान् हनिष्यामि रुक्म्यादीननुधावतः ॥ ४८ ॥ १ स्वदोषस्य गुप्तिहेतवे । २ समुद्रः । ३ तत्पक्षीयाः । ४ तालवृक्षपंक्तिम् । ५ पद्मनालपंक्तिमिव । ६ रंधितमसूरधान्यस्य कणलीलया ।
अष्टमं पर्व
षष्ठः
सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
कृष्णेन रुक्मिणी
हरणम् ।
॥ २१६ ॥