________________
त्रिषष्टिशलाकापुरुषचरिते IR१५॥
अष्टमं पर्व षष्ठः सगः श्रीअरिष्टनेमिजिनचरितम् ।
तं च व्यतिकरं ज्ञात्वा नीत्वा रहसि रुक्मिणीम् । ऊचे पितृष्वसा धात्री गिरा प्रेमपवित्रया ॥ २३ ॥ शैशवे त्वां ममांकस्थां प्रेक्ष्यर्षिरतिमुक्तकः । आख्याद्यदग्रमहिषी कृष्णस्यैषा भविष्यति ।। २४ ।। कथं कृष्णः परिज्ञेय इति पृष्टस्तु सोऽवदत् । ज्ञेयः कृष्णोऽपरांभोधौ द्वारिकासन्निवेशनात् ।। २५ ।। कृष्णाय याचमानायाप्यसि दत्ता न रुक्मिणा । शिशुपालाय किं तु त्वं प्रदत्ता दामघोषये ।।२६ ॥ रुक्मिण्यूचे किमुषीणां विसंवदति भाषितम् । प्रातस्तनितमब्दानां किं वा भवति निष्फलम् ।। २७ ।। कृष्णेऽभिलाषं रुक्मिण्या ज्ञात्वैवं सा पितृष्वसा । सद्यः प्रच्छन्नदूतेन कृष्णायैवमजिज्ञपत् ।। २८ ॥ माघमासे सिताष्टम्यां नागपूजा मिषादहम् । रुक्मिण्या सह निर्गत्य यास्याम्युद्यानवीथिकाम् ।। २९ ।। आगंतव्यं त्वया तत्र रुक्मिण्या चेत्प्रयोजनम् । अन्यथा शिशुपालोऽमूं परिणेष्यति मानदः ॥ ३० ॥ इतश्च शिशुपालः स आहूतस्तेन रुक्मिणा । उद्वोढुं रुक्मिणीमागात् ससैन्यः कुडिनं पुरम् ।।३१ ॥ तत्रायातं शिशुपालं रुक्मिणीवरणोद्यतम् । ज्ञापयामास कृष्णाय नारदः कलिकौतुकी ।।३२ ॥ कृष्णोऽपि सह रामेण विभिन्नं रथमास्थितः । जगाम कुडिनपुरं स्वैरप्यनुपलक्षितः ।।३३ ॥ तदा तया पितृष्वना सखीभिश्च समावृता । नागपूजाकृते रुक्मिण्युद्यानभुवमाययौ ।। ३४ ।। अवतीर्य रथात् कृष्णो ज्ञापयित्वा स्वमादितः । नत्वा पितृष्वसारं तामित्यवोचत रुक्मिणीम् ।।३५ ॥ १ दमघोषपुत्राय ।२ भिन्न भिन्नम् ।
कृष्णेन रुक्मिणीहरणम् ।
||२१५॥