________________
अष्टमं पर्व
त्रिषष्टिशलाकापुरुषचरिते IR१४॥
षष्ठः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
इयं तु पतिवाल्लभ्याद्रूपयौवनगर्विता । अभ्युत्थानं दूरतोऽस्तु दृग्मात्रमपि न ह्यदात् ।। १०॥ ततोऽमूमतिरुपायाः सपन्याः प्राप्तिसंकटे । पातयामीति विमृशन् स ययौ कुडिनं पुरम् ।। ११ ॥ तत्राभुभीष्मको राजा तस्य पत्नी यशोमती । तयो रुक्मी सुतो कन्या रुक्मिणी रुपशालिनी ।। १२ ॥ गतश्च नारदस्तत्र रुक्मिण्या च नमस्कृतः । वरोऽर्धभरतेशस्ते कृष्णः स्तादित्युवाच च ॥१३ ।। कृष्णः कोऽसाविति तया पृष्ट आख्यच्च नारदः । अद्वैतान् रुपसौभाग्यशौर्यादीन् कृष्णगान् गुणान् ॥ १४ ॥ तच्छुत्वा रुक्मिणी कृष्णे सानुरागाभवत् क्षणात् । कृष्णमेवाभिलष्यंती तस्थौ मन्मथविह्वला ॥ १५ ॥ पटे लिखित्वा तद्रूपं द्वारिकामेत्य नारदः । दर्शयामास कृष्णस्य सुधावर्तिनिभं दृशोः ।। १६ ॥ दृष्टवा च कृष्णः पप्रच्छ नारदं भगवन्नियम् । का नाम देवतालेखि पटेऽस्मिन् भवता वद ।। १७ ॥ स्मित्वोचे नारदो नेयं देवता किं तु मानुषी । कुमारी रुक्मिणी जामिः कुडिनेशस्य रुक्मिणः ॥ १८ ॥ तद्रूपविस्मितः कृष्णः सद्योऽपि प्रेष्य पूरुषम् । रुक्मिणी रुक्मिणः पार्श्वे ययाचे प्रियया गिरा ।। १९ ॥ हसित्वोवाच रुक्म्येवं गोपो हीनकुलोऽप्यहो । मज्जामि याचते मूढः कोऽयं तस्य मनोरथः ॥ २० ॥ दास्ये मैथुनिकायामू शिशुपालाय भूभुजे । उचितो ह्यनयोर्योगो रोहिणीशशिनोरिव ।।२१ ।। इति श्रुत्वा स दूतोऽपि तद्वाचं परुषाक्षराम् । आगत्य कथयामास स्वामिने पीतवाससे ॥२२॥ १ मैत्रीकरणाय ।
नारदस्याऽवज्ञा, क्रोधश्च।
||२१४॥