________________
षष्ठः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते IR१३॥
अष्टम पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
नारदस्याऽवज्ञा, क्रोधश्च ।
तत्र कृष्णः सरामोऽपि दशानिनुवर्तयन् । रममाणः सुखं तस्थौ यदुभिः परिवारितः ॥१॥ तन्वन्मुदं दशार्हाणां भ्रात्रोश्च हलिकृष्णयोः । अरिष्टनेमिर्भगवान् ववृधे तत्र च क्रमात् ।। २ ।। ज्यायांसोऽपि लघूभूय चिक्रीडुः स्वामिना समम् । सर्वेऽपि भ्रातरः क्रीडाशैलोद्यानादिभूमिषु ॥ ३ ॥ स्वामी दशधनुस्तुंगः क्रमात् प्राप च यौवनम् । आजन्म कामविजयी तेनाविकृतमानसः ।। ४ ।। पितृभ्यां रामकृष्णाद्यैर्धातृभिश्च दिने दिने । अर्थ्यमानोऽपि कन्यानामुद्वाहं न ह्यमन्यत ॥ ५ ॥ रामकृष्णौ च तौ भूपान् समाचक्रमतुर्बहून् । शक्रेशानाविव युतौ पर्यपातामुभौ प्रजाः ॥ ६ ॥ पर्यटन्नारदोऽन्येधुः कृष्णौकसि समाययौ । कृष्णेन च सरामेण स्वयं विधिवदर्चितः ॥७॥ सोऽथ कृष्णांतःपुरेऽगात्तत्र स्वं सत्यभामया । पश्यंत्या दर्पणे नार्चि व्यग्रत्वाद्विष्टरादिना ॥ ८ ॥ ततः स निरगाळुद्धो विरुद्धं चेत्यचिंतयत् । केशवांतःपुरे सर्वैरर्चिता नारदाः सदा ॥९॥ १ अरक्षताम् । २ आदर्श स्वं आत्मानं रुपमिति यावत् पश्यत्या सत्यभामया व्यग्रत्वाद्विष्टरादिना आसनादिना न पूजितः । ३ अर्च-पूजायाम् अद्यतन्यां भावकर्मणि ।
|| २१३॥