________________
त्रिषष्टिशलाका
पुरुषचरिते २२४ ॥
प्रतारयसि किं नाथेत्युक्तः कृष्णस्तया पुनः । केनापि च्छलितोऽस्मीति बहुधान्वेषयत्सुतम् ॥। १४० ।। सुतोदते त्वसंप्राप्ते रुक्मिणी मूर्च्छितापतत् । रुरोद लब्धसंज्ञा तु तारं परिजनैः समम् ।। १४१ । यदवो यदुपन्यश्च तस्थुः सर्वेऽपि दुःखिताः । सत्यभामां विमुच्यैकां तदीयं च परिच्छदम् ॥। १४२ ।। प्रभविष्णोर्न किं विष्णोः पुत्रोदंतोऽधुनापि हि । रुक्मिण्येवं ब्रुवाणादादुःखं कृष्णस्य दुःखिनः ।। १४३ । अशेषैर्यदुभिः सार्धं तत्रोद्विग्नस्य शार्ङ्गिणः । सभायां नारदोऽभ्यागात्किमेतदिति चावदत् ॥ १४४ ॥ कृष्ण बभाषे रुक्मिण्या जातमात्रः करान्मम । हृतः केनापि तनयः शुद्धिं जानासि तस्य किम् ।। १४५ ।। उवाच नारदोऽत्रासीन्महाज्ञान्यतिमुक्तकः । स गतो मोक्षमधुना न ज्ञानी कोऽपि भारते ।। १४६ ।। सीमन्धरस्तीर्थकरः सर्वसंशयनाशनः । सांप्रतं प्राग्विदेहेषु गत्वा पृच्छामि तं हरे ।। १४७ ।। कृष्णेन यदुभिश्चान्यैरभ्यर्च्याभ्यर्थितो ययौ । नारदस्त्वरितं तत्र यत्र सीमंधरः प्रभुः ।। १४८ ।। स्थितं समवसरणे तं जिनेन्द्रं प्रणम्य सः । पप्रच्छ कृष्णरुक्मिण्योर्भगवन् क्व सुतोऽधुना ॥ १४९ ॥ स्वाम्याख्याद्युसदा धूमकेतुना प्राग्भवारिणा । हृतच्छलेन कृष्णस्य प्रद्युम्नो नाम नंदनः ।। १५० ।। मुक्तस्तेनोपवैताढ्यं शिलायां न तु सोऽमृत । हंतुं चरमदेहत्वात्स केनापि न शक्यते ।। १५१ ।। प्रातश्च गच्छता दृष्टः संवरेण खचारिणा । पुत्रत्वेनार्पितः पल्यै वर्धमानोऽस्ति संप्रति ।। १५२ ॥
१ समर्थस्य । २ अदात् । ३ देवेन ।
9*܀
अष्टमं पर्व षष्ठः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
सीमन्धरस्वामिनो
ऽन्तिके
नारदस्य
गमनम्
प्रद्युम्न प्रवृत्त्याप्तिश्च ।
॥ २२४ ॥