SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते IR१०॥ अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । वर्धमानाश्चेतिसंज्ञाः प्रासादास्तत्र लक्षशः । एकभूमा द्विभूमाश्च त्रिभूमाद्याश्च निर्मिताः ।। ४०२ ॥ ॥युग्मम् ॥ विचित्ररत्नमाणिक्यैश्चत्वरेषु त्रिकेष्वपि । जिनचैत्यानि दिव्यानि निर्मितानि सहस्रशः ॥ ४०३ ।। आग्नेय्यां दिशि तत्रादौ सौवर्णो वप्रसंयुतः । समुद्रविजयस्याभूत् प्रासादः स्वस्तिकाभिधः ।। ४०४ ॥ प्रासादौ च तदभ्यर्णेऽक्षोभ्यस्तिमितयोः क्रमात् । नंद्यावर्तगिरिकूटौ सप्राकारौ बभूवतुः ॥ ४०५ ।। नैर्ऋत्यां सागरस्याभूत् प्रासादोऽष्टांश उच्चकैः । प्रासादौ वर्धमानाख्यौ ततः पंचमषष्ठयोः ।। ४०६ ।। नाम्ना पुष्करपत्रोऽभून्मारुत्यां धरणस्य तु । आलोकदर्शनो नाम पूरणस्य ततोऽपि हि ।। ४०७ ।। तदभ्यर्णेऽभिचंद्रस्य विमुक्तो नामतोऽभवत् । ऐशान्यां वसुदेवस्य कुबेरच्छंदसंज्ञितः ॥ ४०८ ।। स्त्रीविहारक्षमो नाम राजमार्गसमीपतः । उग्रसेननरेन्द्रस्य जज्ञे प्रासाद उन्नतः ।। ४०९ ॥ कल्पद्रुमैर्वृताः सर्वे सेभशालाः समंदुराः । सप्राकारा बृहद्वाराः पताकामालधारिणः ।। ४१० ॥ तेषां च मध्ये प्रासादो नामतः पृथिवीजयः । चतुरस्रो बृहद्वारो बलदेवस्य निर्ममे ॥ ४११ ॥ प्रासादोऽष्टादशभूमः सर्वतोभद्रसंज्ञकः । नानागृहपरिवारो वासुदेवस्य चाभवत् ।। ४१२ ।। सुधर्मासदृशी रामकृष्णप्रासादयोः पुरः । सभा सर्वप्रभासाख्या नानामाणिक्यमय्यभूत् ।। ४१३ ॥ १ वाजिशालागजशालासहिताः । द्वारिकानिर्माणम् । ॥ २१०॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy