________________
त्रिषष्टिशलाकापुरुषचरिते IR०९॥
| अष्टम पर्व | पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
रामकृष्णौ बलविष्णू द्वारकास्थाविमौ पुनः । जरासंघवधादर्धभरतेशौ भविष्यतः ।। ३८९ ।। ततो हृष्टस्तमर्चित्वा समुद्रो व्यसृजन्मुनिम् । सुखाकरैः प्रयाणैश्च सुराष्ट्रामंडलं ययौ ।। ३९० ॥ तत्र रैवतकस्याद्रेः प्रत्यगुत्तरतोऽथ ते । अष्टादशकुलकोटीसंयुताः शिबिरं न्यधुः ।। ३९१ ।। कृष्णपत्नी सत्यभामा तत्रासूत सुतावुभौ । भानुभामरनामानौ जात्यजांबूनदद्युती ॥३९२ ।। दिने कोष्ट्रकिनाख्याते स्नातः कृतबलिहरिः । अंभोधि पूजयामास विदधे चाष्टमं तपः ।। ३९३ ॥ ततस्तृतीययामिन्यां नभस्थः सुस्थितोऽमरः । लवणाब्धेरधिष्ठाता तत्रागच्छत् कृतांजलिः ।। ३९४ ॥ कंसारये पांचजन्यं सुघोष मुष्टिकारये । ददौ स देवो दिव्यानि रत्नमाल्यांशुकानि च ।। ३९५ ।। स देवः कृष्णमूचे च कुतो हेतोस्त्वया स्मृतः । सुस्थितो नाम देवोऽहं ब्रूहि किं करवाणि ते ।। ३९६ ॥ उवाच कृष्णस्तं देवं या पूर्वं पूर्वशाह्मिणाम् । पुर्यत्र द्वारकेत्यासीत् पिहिता सा त्वयांभसा ॥३९७ ॥ ममापि हि निवासाय तस्याः स्थान प्रकाशय । तथा कृत्वा सोऽपि देवो गत्वेन्द्राय व्यजिज्ञपत् ।। ३९८ ।। शक्राज्ञया वैश्रवणश्चके रत्नमयीं पुरीम् । द्वादशयोजनायामां नवयोजनविस्तृताम् ।।३९९ ॥ तुंगमष्टादशहस्तान्नवहस्तांश्च भूगतम् । विस्तीर्ण द्वादशहस्तांश्चके वप्रं सुखातिकम् ।। ४०० ।। वृत्ताश्च चतुरस्राश्च व्यायत्ता गिरिकूटकाः । स्वस्तिकाः सर्वतोभद्रा मंदरा अवतंसकाः ॥ ४०१ ।।
द्वारिकानिर्माणम् ।
॥ २०९॥