________________
त्रिषष्टिशलाकापुरुषचरिते IR०८॥
अष्टम पर्व पञ्चमः |सर्ग: श्रीअरिष्टनेमिजिनचरितम् ।
दशार्हा रामकृष्णौ च चितायामविशन्निह । तेषां वियोगे बंधूनां वेक्ष्याम्यग्नावसावहम् ॥३७६ ।। इयुक्त्वा साविशद्वह्नौ देवतामोहितश्च सः । कालोऽवोचत् सहदेवं यवनं भूभुजोऽपि च ।। ३७७ ॥ मया तातस्य जामेश्च पुरतोऽदः प्रतिश्रुतम् । वढ्यादिभ्योऽपि कृष्ट्वाहं हनिष्यामि यदून् खलु ।। ३७८ ।। प्रविष्टान् मद्भयादग्नौ तान् हन्तुमहमप्यहो । सत्यसंधः प्रवेक्ष्यामि ज्वलितेऽस्मिन् हुताशने ।। ३७९ ॥ इत्युक्त्वा सोऽसिफलकी विवेशाग्नौ पतंगवत् । मृतश्च स्वेषु पश्यत्सु देवतामोहितात्मसु ॥ ३८० ॥ अत्रांतरे चास्तगिरिं जगाम भगवानविः । ऊषुस्तत्रैव यवनसहदेवादयश्च ते ।।३८१ ॥ जाते प्रभाते तेऽपश्यंस्तं नाद्रिं न चितां च ताम् । दूरंगता यदवश्चेत्याख्यंस्तेभ्यश्च हेरिकाः ।। ३८२ ।। वृद्धालोचनतो ज्ञात्वा संमोहं देवताकृतम् । यवनाद्या निवृत्याख्युस्तत्सर्वं मगधेशितुः ।। ३८३ ।। अतुच्छया मूर्छयाथ जरासंघोऽपतद्भुवि । ससंज्ञः काल कालेति कंस कंसेति चारुदत् ।। ३८४ ॥ विज्ञाय कालमरणं गच्छंतो यदवोऽपि ते । आनषुः कोष्टुकिं जातप्रत्ययं भूरिसंमदाः ॥ ३८५ ॥ पथ्येकस्मिन् वने तेषां तस्थुषां सोऽतिमुक्तकः । समाययौ चारणर्षिर्दशाहेशेन चार्च्यत ।।३८६ ।। समुद्रविजयोऽपृच्छत्तं प्रणम्य महामुनिम् । अमुष्मिन् व्यसनेऽस्माकं भगवन् किं भविष्यति ।। ३८७ ॥ ऋषिर्बमाषे मा भैषीर्वाविंशो ह्येष तीर्थकृत् । कुमारोऽरिष्टनेमिस्ते त्रैलोक्याद्वैतपौरुषः ।।३८८ ॥ १ दूताः ।
देवतामायया जरासंघवञ्चनम् ।
|| २०८॥