________________
त्रिषष्टिशलाका
पुरुषचरिते
अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
IR०७॥
ततो घोषणया राजा स्वां यात्रां स्वानजिज्ञपत् । एकादशकुलकोटीसंयुतो मथुरां जहौ ।। ३६३ ॥ गत्वा शौर्यपुरे सप्त कुलकोटीस्ततोऽपि हि । आदाय ज्ञातिसहितः समुद्रविजयोऽचलत् ।।३६४ ।। उग्रसेननरेन्द्रोऽपि समुद्रनृपमन्वगात् । मध्येविंध्यं च सर्वेऽपि जग्मुः सुखसुखं पथि ॥ ३६५ ।। तदा च सोमको राजा जरासंघार्धचक्रिणे । गत्वा शशंस तत्सर्वं क्रोधवह्नींधनायितम् ।।३६६ ॥ जरासंघमथ क्रुद्धं कालः संप्रेक्ष्य तत्सुतः । उवाच भवतां के हि यदवोऽमी तपस्विनः ॥३६७ ॥ तदादिश दिशामंताद्वढेरब्धेश्च मध्यतः । कृष्ट्वा यदून हनिष्यामि निवर्तिष्येऽन्यथा न हि ॥३६८ ।। ततः कालं जरासंघो राजपंचशतीयुतम् । महासेनापरिवृतं यदूनु प्रति समादिशत् ।। ३६९ ।। कालो भ्रात्रा यवनेन सहदेवेन चान्वितः । वार्यमाणोऽप्यशकुनैर्दुर्निमित्तैर्निरीयिवान् ।। ३७० ॥ स यदूनामनुपदं गच्छन् प्रापाचिरादपि । विंध्याचलोपत्यकोर्वीमदूरोषितयादवाम् ।। ३७१ ।। दृष्ट्वा कालमथासन्नं रामकृष्णाभिरक्षकाः । विचक्रुर्देवताः शैलमेकद्वारं पृथून्नतम् ।। ३७२ ।। उषितं च यदुसैन्यं भस्मीभूतं कृशानुना । उपचित्यं स्त्रियमेकां रुदंती च विचक्रिरे ।। ३७३ ।। तां प्रेक्ष्य कालः पप्रच्छ भद्रे किमिति रोदिषि । साख्यगीता जरासंघाद्रुवुर्यदवोऽखिलाः ।। ३७४ ।। तेषां च पृष्ठतो वीरः कालः काल इवाचलत् । तत्रासन्ने च चकिताः प्राविशन् यदवोऽनले ।। ३७५ ।। १ आप्तान् । २ सुखप्रकारं । ३ निर्जगाम । ४ चितासमीपम् ।
देवतामायया जरासंघवञ्चनम् ।
।। २०७॥