________________
त्रिषष्टिशलाकापुरुषचरिते I२०६॥
अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
षड्गर्भा यत्र ते राजस्तत्रैतावपि दुर्मती । गच्छतां मा स्म कंडूयस्तुंडं तक्षकभोगिनः ।।३४९ ।। विरोधो बलिना सार्धं न हि क्षेमाय जायते । कस्त्वं मेष इवेभस्य पुरतो मगधेशितुः ॥ ३५० ॥ क्रुद्धोऽभ्यधाच्च गोविंदस्तातेन चिरमार्जवात् । पालिते स्नेहसंबंधे त्वत्स्वामी किं प्रभूयते ।। ३५१ ।। न नः प्रभुर्जरासंघः प्रत्युतैवं स विब्रुवन् । कंसो द्वितीयस्तद्गच्छ यथेच्छं शंस तस्य भोः ॥३५२ ।। इत्युक्तः सोमकोऽवोचत् समुद्रविजयं प्रति । कुलांगारः सुतस्तेऽसौ दशाह किमुपेक्षसे ।।३५३ ।। तद्गिरा प्रज्वलन् कोपादनाधृष्टिरदोऽवदत् । भूयो भूयो याचमानः पुत्रौ तातान्न लज्जसे ।। ३५४ ॥ स जामातृवधेनापि दूनो राजगृहेश्वरः । षड्भ्रातृनिधनेनापि न दूनाः किं वयं पुनः ।। ३५५ ।। दोषमानामश्च कृष्णश्चान्येऽप्यक्रूरादयो वयम् । न सहिष्यामहे हंत त्वामेवमभिभाषिणम् ।। ३५६ ।। इत्यनाधृष्टिना रोषाद्धर्षितो रोषविह्वलः । उपेक्षितः समुद्रेण स्वस्थानं सोमको ययौ ॥३५७ ॥ द्वितीयेऽह्नि दशार्हेण मेलयित्वा स्वबांधवान् । पप्रच्छ कोष्टुकिं नाम हितं नैमित्तिकोत्तमम् ।। ३५८ ।। त्रिखंडभरतेशेन जरासंघेन विग्रहः । उपस्थितोऽयमस्माकं ब्रूहि यद्भाव्यतः परम् ।।३५९ ॥ सोऽप्युवाचाचिरादेतौ रामकृष्णौ महाभुजौ । त्रिखंडभरताधीशौ तं निहत्य भविष्यतः ।। ३६० ॥ यात प्रतीच्यामधुना समुद्दिश्यांबुधेस्तटम् । भावी शत्रुक्षयारंभो गच्छतामपि तत्र वः ॥३६१ ॥ सत्यभामा च यत्रैषा प्रसूते दारकद्वयम् । पुरीनिवेशं तत्रैव कृत्वा स्थेयमशंकितैः ॥३६२ ।।
जरासंघस्य कृष्णरामयोवधाय यनकरणम् ।
।। २०६॥