SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते IR०५॥ अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । इतश्च सा जीवयशा रुदंती मुक्तकुंतला । प्रविवेश जरासंघास्थान्यामश्रीरिवांगिनी ॥३३५ ।। जरासंघेन पृष्टाथ कथंचिदपि सावदत् । अतिमुक्तकवृत्तांतं कंसघातकथां च ताम् ।। ३३६ ।। प्रत्युवाच जरासंघः साधु कंसेन नो कृतम् । यन्नाहन देवकीमेव क्षेत्राभावे कुतः कृषिः ।।३३७ ।। मा रोदीरधुना वत्से रोदयिष्यामि तत्स्त्रियः । समूलघातं तान् हत्वा परितः कंसघातकान् ।।३३८ ।। तामित्युक्त्वा जरासंघः सोमकं नाम पार्थिवम् । अनुशिष्य प्रजिघाय समुद्रविजयांतिके ।। ३३९ ॥ स एत्य मथुरापुर्या समुद्रविजयं नृपम् । इत्युवाच जरासंघः समादिशति वः प्रभुः ।। ३४० ।। अस्माकं जीवयशा जीवितादपि वल्लभा । तत्स्नेहात्तत्पतिः कंसः कस्यैतद्विदितं न हि ॥३४१ ॥ भवंतोऽपि हि भृत्या नः सुखं तिष्ठंतु किं तु नः । अर्पणीयौ रामकृष्णौ क्षुद्रौ कंसद्रुहाविमौ ॥३४२ ॥ किं चायं सप्तमो गर्भः पुराप्यर्पित एव हि । सोऽद्यार्यतामसौ रामः पुनस्तद्गोपनादपि ।। ३४३ ।। ऊचे समुद्रविजयो मत्परोक्षेऽर्पिता यदि । ऋजुना वसुदेवेन षड्गर्भास्तद्धि नोचितम् ।।३४४ ।। वत्साभ्यां रामकृष्णाभ्यां स्वभ्रातृवधवैरतः । कंसो हतश्चेत्तदिह किमेतावपराध्यतः ।। ३४५ ।। एको दोषोऽयमस्माकं यत्स्वैरी बाल्यतोऽपि हि । वसुदेवस्तस्य बुद्ध्या हताः षट् सूनवो मम ॥ ३४६ ।।। प्राणभूतौ रामकृष्णौ मम सुतौ वर्धेच्छया । त्वद्भर्तुर्याचमानस्य न विमृश्य विधायिता ।। ३४७ ।। सकोपः सोमकोऽप्यूचे न खल स्वामिशासने । युक्तायुक्तविचारोऽर्हः सेवकानां कदाचन ।। ३४८ ।। १ शोभारहिता । |जरासंघस्य | कृष्णरामयो वधाय यलकरणम् । ॥ २०५॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy