________________
त्रिषष्टिशलाकापुरुषचरिते IR०४॥
अष्टमं पर्व पञ्चमः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
ततः समुद्रविजयः स्वोत्संगे कृष्णमादधे । रामं तत्पालनप्रीतः प्राशंसच्च मुहर्मुहुः ।। ३२१ ।। तयैकनासया पुत्र्या सहागत्य च देवकी । अंकादंकं संचरंतं कृष्णमादाय सस्वजे ।। ३२२ ।। ऊचुश्च यादवा वीरा वसुदेवमुदश्रवः । एकाक्यपि जगज्जेतुं त्वं क्षमोऽसि महाभुज ।। ३२३ ॥ कंसेनातिनृशंसेन जातजातांस्त्वमात्मनः । हन्यमानान् सुतान् वीर कथं नामासि सोढवान् ।। ३२४ ।। वसुदेवोऽप्युवाचैवमाजन्म परिपालितम् । सत्यव्रतं त्रातुमहं दुःकर्मेदं विसोढवान् ।।३२५ ॥ देवक्याश्चाग्रहेणायं कृष्णः प्रक्षिप्य गोकुले । मयारक्षि नंदसुतां संचार्येमां वराकिकाम् ।। ३२६ ॥ स्त्रीमात्रं सप्तमो गर्भो देवक्या इत्यवज्ञया । एकं नासापुटं छित्वा मुमोचेमां स पापधीः ।। ३२७ ॥ भ्रातृभ्रातृव्यसंमत्या समुद्रविजयस्ततः । कारागारादुग्रसेनं कर्षयामास पार्थिवम् ।। ३२८ ।। राज्ञा सहोग्रसेनेन समुद्रविजयादयः । कंसस्य प्रेतकार्याणि कालिंदीपुलिने व्यधुः ।।३२९ ॥ कंसस्य माता पल्यश्च ददुर्नद्यां जलांजलीन् । मानात्तु न ददौ जीवयशाः कोपादुवाच च ।।३३०॥ गोपावेतौ रामकृष्णौ दशाहांश्च ससंततीन् । घातयित्वा प्रेतकार्य करिष्ये स्वपतेरहम् ॥ ३३१ ।। अन्यथाग्नौ प्रवेक्ष्यामि प्रतिश्रुत्येति सोच्चकैः । निर्गत्यागाज्जरासंघश्रिते राजगृहे पुरे ।।३३२ ।। रामकृष्णानुज्ञयाथ समुद्रविजयो नृपः । चकार मथुरापुर्यामुग्रसेनं नरेश्वरम् ॥३३३ ।। प्रदत्तामुग्रसेनेन सत्यभामा जनार्दनः । दिने कोष्टुकिनाख्याते पर्यणैषीद्यथाविधि ।।३३४ ।।
कंसपलीजीवयशसः रामकृष्णादीनां वधाय प्रतिज्ञा।
। २०४॥