________________
त्रिषष्टिशलाकापुरुषचरिते I२०३॥
अष्टमं पर्व पञ्चमः सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
त्वया कृता भ्रूणहत्या स्वरक्षार्थं वृथैव रे । इदानीं न भवस्येक्ष स्वकर्मफलभाग्भव ।। ३०८ ॥ आत्तरुप इव व्याले धृतकंसे हरौ तदा । विसिष्मिये च बिभयांचकार च जनोऽखिल: ।।३०९ ।। अथ यौत्रिकबंधनानुच्छ्वासीकृत्य मुष्टिकम् । यज्ञोपनीताजामिव वीरो नीलांबरोऽवधीत् ।।३१० ॥ इतश्च कंसरक्षार्थ कंसगृह्या महाभटाः । कृष्णं हन्तुमधावन्त विविधायुधपाणयः ।। ३११ ।। मंचस्तंभमथोद्धृत्य रामस्तान् परिताडयन् । द्रुतं विद्रावयामास मधुस्था मक्षिका इव ।। ३१२ ॥ कृष्णोऽपि पादं शिरसि न्यस्य कंसं व्यपादयत् । केशै कृष्ट्वाक्षिपद्रंगाबहिस्तं दार्विवार्णवः ।।३१३ ॥ कंसेन पूर्वमानीता जरासंघस्य सैनिकाः । तदा संवर्मयामासू रामकृष्णजिघांसया ॥३१४ ।। तांश्च सन्नह्यतः प्रेक्ष्य समूद्रविजयो नृपः । सन्नह्याढौकयधुद्धे तदर्थं हि तदागमः ॥३१५ ।। द्राक् समुद्र इवोद्वेले समुद्रविजये नृपे । दिशो दिशं ययुनंष्ट्वा जरासंघस्य सैनिकाः ।।३१६ ।। रामकृष्णावनाधृष्टिरारोप्य स्यंदने निजे । समुद्रविजयादेशाद्वसुदेवगृहेऽनयत् ॥३१७ ।। सर्वेऽपि यादवास्तत्र समुद्रविजयादयः । वसुदेवगृहे गत्वा दत्वास्थानीमुपाविशन् ।।३१८ ॥ अर्धासनासितबलः स्वांकमारोप्य केशवम् । मुहुश्चुचुंब शिरसि वसुदेवोऽश्रुलोचनः ॥३१९ ।। किमेतदिति सोदर्यैः पृष्ट आनकदुंदुभिः । कृष्णवृत्तांतमाचख्यावतिमुक्तकवृत्ततः ॥३२० ॥ १ आस्थानी सभाम् ।
कृष्णकृतः कंसवधः।
॥ २०३॥