________________
त्रिषष्टिशलाकापुरुषचरिते IR०२॥
अष्टम पर्व पञ्चमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
मदेनेव लुलदृष्टिसेन घातेन पीडितः । अधोक्षजो मीलिताक्षः पपात पृथिवीतले ।। २९५ ।। कंसेन प्रेरितो दृष्ट्वा चाणूरच्छलवेदिना । हंतुं विसंज्ञं गोविंदं पापः पुनरधावत ।। २९६ ।। जिघांसुं तं बलो ज्ञात्वा सद्योऽभ्युत्सृष्टमुष्टिकः । अताडयत् प्रकोष्टेन पतद्वज्रानुहारिणा ।।२९७ ॥ चाणूरस्तेन घातेन सप्त चापानपासरत् । कृष्णोऽपि हि समाश्वस्य पुनराह्वास्त तं युधि ।। २९८ ॥ मध्यमाक्रम्य जानुभ्यां शीर्ष दोष्णा नमय्य च । जघान मुष्ट्या गोविंदश्चाणूरं गुरुविक्रमः ।।२९९ ॥ चाणूरो वांतरुधिरधारो विधुरलोचनः । कृष्णेन मुमुचे भीतैरिव प्राणैरपि क्षणात् ।। ३०० ।। कंसोऽथ भयकोपाभ्यां वेपमानोऽब्रवीदिति । अरे गोपसुतावेतौ मार्यतामविलंबितम् ।।३०१ ॥ येनैतो पोषितौ सौ तं नंदमपि रे हत । आदाय तस्य सर्वस्वमिहानयत दुर्मतेः ॥ ३०२ ॥ तद्गृह्योऽन्योऽपि यः कश्चित्तस्य त्रातान्तरे भवेत् । समानदोषः सोऽप्याशु निहंतव्यो मदाज्ञया ॥३०३ ॥ अथोचे पुंडरीकाक्षोऽरुणाक्षः कोपसंभ्रमात् । मृतंमन्योऽसि नोऽद्यापि त्वं चाणूरे हतेऽपि हि ॥३०४ ॥ तावद्रक्ष त्वमात्मानं हन्यमानं मयाद्य रे । पश्चात् स्वामर्षसदृशं नंदादिषु समादिशेः ॥ ३०५ ।। इत्युक्त्वोत्पत्य गोविंदो मंचमारुह्य तत्क्षणात् । संगृह्य कंसं केशेषु पृथिव्यां पर्यपातयत् ॥३०६ ।। विशीर्णमुकुटं सस्तांतरीयं तरलेक्षणम् । सूनाबद्धं पशुमिव तमुवाच जनार्दनः ।।३०७ ।। १ उत्सृष्टस्त्यक्तो मुष्टिको येन सः ।
कृष्णकृतः कंसवधः।
। २०२॥