________________
त्रिषष्टिशलाका
पुरुषचरिते
IR०१॥
अष्टमं पर्व | पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
युध्यमानौ स्वयं चैतौ को नामेह निषेधति । यस्य पीडानयोश्चास्ति पृथग्भूत्वा स जल्पतु ।। २८३ ।। इति कंसवचः श्रुत्वा तूष्णीकोऽभूज्जनोऽखिलः । स्मेरनेत्रारविंदश्च गोविंद इदमभ्यधात् ॥२८४ ।। राजपिंडेन पुष्टोऽयं कृताभ्यासश्च सर्वदा । समर्थश्च शरीरेण चाणूरो मल्लकुंजरः ।। २८५ ।। मया गोपालबालेन गोपयःपानजीविना । हरिपोतेन हस्तीव हन्यमानोऽद्य दृश्यताम् ।।२८६ ।।
॥युग्मम् ॥ कंसस्तत्सौष्ठवाभीतो युगपद्युद्धहेतवे । द्वितीयं मुष्टिकं नाम महामल्लं समादिशत् ।। २८७ ।। उत्थितं मुष्टिकं दृष्ट्वा मंचादुत्तीर्य सात्वतः । नियुद्धाय तमाह्वास्त विहस्तो रणकर्मणि ।। २८८ ।। ततश्च कृष्णचाणूरौ तौ चोभौ राममुष्टिको । नियोधं प्रववृताते नागपाशोपमैर्भुजैः ।। २८९ ।। तेषां दृढपदन्यासैरकपिष्टेव मेदिनी । पुस्फोटेव करास्फोटरवैर्ब्रह्मांडमंडपः ।। २९० ॥ तौ च मुष्टिकचाणूरावुत्क्षिप्य तृणपूलवत् । क्षिप्तौ खे रामकृष्णाभ्यां पश्यंतो जहषुर्जनाः ॥२९१ ॥ चाणूरमुष्टिकाभ्यां च मनागपि हि तौ भटौ । उत्क्षिप्यमाणौ संप्रेक्ष्य लोको म्लानमुखोऽभवत् ।।२९२ ।। दृढमुष्ट्या च चाणूरं ताडयामास केशवः । दंतीव तरसा दंतमुशलेन शिलोच्चयम् ।।२९३ ।। मानदो जयमानी च चाणूरोऽरिष्टसूदनम् । जघानोरःस्थले मुष्ट्या वज्रगोलसमौजसा ।। २९४ ।। १ पंडितः ।
बलरामयोमल्लैः सह युद्धम् ।
||२०१॥