________________
त्रिषष्टिशलाकापुरुषचरिते
२०० ॥
तत्रैकस्मिन्महामंचे जनमुत्सार्य तत्स्थितम् । निःशंकौ सपरीवारौ भ्रातरो तौ निषेदतुः ।। २७१ ।। तं शत्रुं दर्शयामास कंसं कृष्णाय सात्वतः । अनुज्येष्ठं पितॄंस्तांश्च समुद्रविजयादिकान् ।। २७२ ।। कौ तु देवोपमावेतावित्यन्योऽन्यविमार्शिनः । तौ प्रेक्षांचक्रिरे भूपा मंचस्था नागराश्च ते ।। २७३ ॥ कंसाज्ञया युयुधिरे तत्र मल्ला अनेकशः । तत्प्रेरितश्च चाणुर उदस्थात् पर्वताकृतिः ॥ २७४ ॥ सोग्रपर्जन्यवद्गर्जन् करास्फोटं विधाय च । आक्षिपन् क्ष्माभुजः सर्वांश्रापूरोऽवोचदुच्चकैः ।। २७५ ।। यः कोऽपि जातो वीरेण वीरमानी च कोऽपि यः नियुद्धयुद्धश्रद्धां मे स पूरयतु दुर्धरः ॥ २७६ ॥ कृष्णोऽसहिष्णुस्तं दर्पं चाणूरस्यातिगर्जतः । मंचादुत्तीर्य विदधे भुजास्फोटं महाभुजः ।। २७७ ।। गोविंदस्य करास्फोटः पुच्छाच्छोटो हेरेरिव । अस्फोटयदिव द्यावापृथिव्यावुभ्दटध्वनि ।। २७८ ।। वयसा वपुषा चैष गरिष्ठः श्रमकर्कशः । नियुद्धजीवी चाणूरः सदा क्रुरश्चर्मूरुवत् ॥ २७९ ॥ अयं दुग्धमुखो मुग्धो मृदुः पद्मोदरादपि । वनवासादनभ्यासो न युद्धं युज्यतेऽनयोः ॥ २८० ॥ असमंजसमेतद्धिग्धिगहो विश्वगर्हितम् । इत्युच्चैर्भाषमाणानां लोकानां तुमुलोऽभवत् ॥ २८१ ॥ ॥ त्रिभिर्विशेषकम् ॥ अथ क्रुद्धोऽवदत्कंसः केनेहाकारिताविमौ । गोपालौ गोपयःपानमत्तौ किं त्वागतौ स्वयम् ।। २८२ ।। १ सिंहस्येव । २ चमूरुर्मृगविशेषस्तद्वत् ।
अष्टमं पर्व पञ्चमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
कृष्णबलरामयोमल्लैः सह
युद्धम् ।
|| 200 ||