________________
त्रिषष्टिशलाका
पुरुषचरि
॥२११ ॥
अष्टोत्तरशतेनोच्चैर्जिनबिंबैर्विभूषितम् । मेरुश्रृंगमिवोत्तुंगं मणिरत्नहिरण्मयम् ।। ४१४ ।। नानाभूमिगवाक्षाढ्यं विचित्रस्वर्णवेदिकम् । अर्हदायतनं रम्यं निर्ममे विश्वकर्मणा ।। ४१५ ।।
॥ युग्मम् ॥ सरांसि दीर्घिका वाप्यश्चेत्यान्युद्यानवीथिकाः । अन्यच्च सर्वं तत्राहोरात्रेण धनदोऽकरोत् ।। ४१६ ॥ एवं च रम्या नगरी द्वारकेन्द्रपुरीसमा । बभूव वासुदेवस्य देवताभिर्विनिर्मिता ।। ४१७ ॥ तस्याः पुरो रैवतकोऽपाच्यामासीत्तु माल्यवान् । सौमनसोऽद्रिः प्रतीच्यामुदीच्यां गंधमादनः ।। ४१८ ॥ ततः प्रातः कुबेरोऽदाद्विष्णवे पीतवाससी । नक्षत्रमालां मुकुटं महारत्नं च कौस्तुभम् ।। ४१९ ।। शार्ङ्गधन्वाक्षय्यशरौ तूणौ खड्गं च नंदकम् । कौमोदकीं गदां चैव रथं च गरुडध्वजम् ।। ४२० ।। रामायादाद्वनमालां मुसलं नीलवाससी । तालध्वजं रथं तूणावक्षय्येषू धनुर्हलम् ॥ ४२१ ॥ दशभ्योऽपि दशार्हेभ्यो रत्नान्याभरणानि च । व्यंश्राणयद्वैश्रवणस्ते ह्यर्च्या रामकृष्णयोः ।। ४२२ ॥ ज्ञात्वा द्विट्सूदनं कृष्णं सर्वेऽपि यदवस्ततः । अभ्यषिंचन् प्रमुदिता अपरोदधिरोधसि ।। ४२३ ।। सिद्धार्थसारथिं रामः कृष्णो दारुकसारथिम् । रथमारोहतां वीरौ प्रवेष्टुं द्वारकापुरीम् ॥ ४२४ ॥ १ पूर्वस्याम् । २ अयच्छत् ।
अष्टमं पर्व पञ्चमः
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
द्वारिकानिर्माणम् ।
॥। २११ ॥