________________
त्रिषष्टिशलाकापुरुषचरिते ||१९७॥
अष्टम पर्व पञ्चमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
क्रमादुत्तीर्य कालिंदी प्रविश्य मथुरां च तौ । तामनेकागतनृपां धनुःपर्षदमीयतुः ।। २३२ ।। अभ्यर्णे धनुषस्तस्याधिष्ठात्रीमिव देवताम् । तौ तां दद्दशतुः सत्यभामासंभोजलोचनाम् ।। २३३ ।। कृष्णं सतृष्णं पश्यति सत्यभामापि तत्क्षणम् । तं वरं मनसा वव्रे मनो भवशरातुरा ।। २३४ ॥ अनाधृष्टिरथोपेत्योद्धरन्नपि हि तद्धनुः । पपात पिच्छिलभ्रश्यत्पाद उष्ट्र इवावनौ ।। २३५ ।। तं शीर्णहारं निष्षिष्टमुकुटं भ्रष्टकुंडलम् । सत्यभामा तदाल्पं चान्ये च स्मेरदृशोऽहसन् ॥ २३६ ।। तत्प्रहासासहः सद्यस्तद्धनुः पुष्पदामवत् । दामोदर उपादत्ताधिज्यीचक्रे च हेलया ।। २३७ ।। तेन कुंडलितेनाभाद्धनुषोद्दामतेजसा । आखंडलधनुदंडेनेव वार्षुकवारिदः ।। २३८ ।। अनाधृष्टिः पितुर्वेश्म गत्वा तद्द्वारि केशवम् । मुक्त्वा रथस्थं मध्येऽगादिति पित्रे शशंस च ।। २३९ ।। शार्ङ्गधन्व मया तातैकाकिनाप्यधिरोपितम् । यदन्यैः पार्थिवैः स्पृष्टुमप्यशक्यत न क्वचित् ।। २४०॥ साक्षेपो वसुदेवस्तमूचे याह्यविलंबितम् । त्वां धन्वारोपणं ज्ञात्वा कंसो व्यापादयिष्यति ।। २४१ ।। आकर्ण्य तदनाधृष्टिीतो निर्गत्य वेश्मतः । जगाम सह कृष्णेन त्वरितं नंदगोकुले ।। २४२ ॥ आपृच्छ्य रामगोविंदौ सोऽथ शौर्यपुरे ययौ । प्रवादश्चेत्यभून्नंदपुत्रेणारोपितं धनुः ।। २४३ ।। चापाधिरोषणादूनः कंसश्चापमहोत्सवम् । अपदिश्य नियुद्धाय मल्लान् सर्वान् समादिशत् ।। २४४ ।। १ पिच्छिल आद्रपके प्रश्यन्तौ पादौ यस्य सः । २ वर्षतीति वार्षुकः स चासौ वारिदश्च ।
कंसेन
कृष्णप्रवृत्तिपरिज्ञानम् ।
||१९७||