________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९६॥
अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
जिघत्सोः प्रसृते तस्य दंतक्रकचदारुणे । मुखे वजोपमं बाहुं वालयित्वा हरिय॑धात् ।। २१९ ।। आग्रीवं बाहुना तेन तथादार्यत तन्मुखम् । परासुः स यथा जज्ञेऽरिष्टसार्थ इवोत्सुकः ।। २२० ॥ कंसस्य खरमेषौ तु तत्राटतौ खरौजसौ । अन्येधुर्लीलया कृष्णो निजघान महाभुजः ।। २२१ ।। तानकर्ण्य हतान् कंसः सम्यक् स्वारिं परीक्षितुम् । शाङ्गपूजोत्सवव्याजात् स्थापयामास पर्षदि ।। २२२ ।। तस्य चोपासिकां सत्यभामां जामि कुमारिकाम् । चक्रे सदा सन्निहितामुत्सवं च प्रचक्रमे ।। २२३ ॥ एवं चाघोषयत् कंसो यः शार्ङ्गमधिरोपयेत् । सत्यभामाहं तस्मै दास्ये सुरवधूपमाम् ॥ २२४ ॥ श्रुत्वेदं तत्र संप्रापुर्दूरादपि महीभुजः । न चारोपयितुं धन्वालंभूष्णुः कश्चिदप्यभूत् ।। २२५ ॥ तच्छ्रुत्वा मदनवेगानंदनो वसुदेवजः । अनाधृष्टिर्वीरमानी वेगिनं रथमास्थितः ।। २२६ ।। आगच्छन् गोकुले तत्र रामकृष्णौ युतावुभौ । प्रेक्ष्योवास निशामेकामालपन् लालयंश्च तौ ।।२२७ ।। प्रातश्च रथमारुह्यानुजं रामं विसृज्य च । सोऽचलत् कृष्णमादाय मथुरामार्गदर्शकम् ।। २२८ ।। मार्गे महाद्रुसंकीर्णे विलग्नस्तद्रथो वटे । तं च मोचयितुं नालमनाधृष्टिर्बभूव सः ॥२२९ ॥ पत्तिस्तत्र व्रजन् कृष्णो लीलयोन्मूल्य तं वटम् । चिक्षेपान्यत्र तदनु रथाध्वानमृगँ व्यघात् ।। २३०॥ अनाधृष्टिस्ततो हृष्ट प्रेक्ष्य तं तस्य विक्रमम् । उत्तीर्य परिरेभे तं रथे चारोपयत् स्वयम् ॥२३१ ।। १ दंता एव क्रकचस्तेन दारुणे । क्रकचः भाषायां “करवत' इति ख्यातम् । २ खरं तीक्ष्णमोजो ययोस्तौ ।
कंसेन कृष्णप्रवृत्तिपरिज्ञानम् ।
*
|| १९६॥