________________
त्रिषष्टिशलाकापुरुषचरिते ||१९५॥
अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
आख्यातं ज्ञानिना यत्तद्भविष्यति भविष्यतः । दोष्मतो वासुदेवस्य दुःस्पर्शमितरैर्जनैः ।। २०६ ॥ कालियाहेः स दमकश्चाणूरस्य च घातकः । पद्मोत्तरं चंपकं च हनिष्यति तव द्विपौ ।। २०७ ॥ स्वारिं ज्ञातुमथो कंसोऽरिष्टादीनमुचद्वने । चाणूरमुष्टिको मल्लावादिदेश श्रमाय च ।। २०८ ॥ तदा शरधरिष्टोक्षा स रिष्टमिव मूर्तिमत् । अंतर्वृन्दावनं गर्जन् गोपलोकमुपाद्रवत् ।।२०९ ।। श्रृंगाग्रेणोद्दधे गाः स तटीपंकमिवोच्चकैः । तुंडाग्रेणालोठयच्च सर्पिर्भाडान्यनेकशः ।। २१० ॥ त्रायस्व कृष्ण कृष्णेति राम रामेति चोच्चकैः । अतिदीनो वल्लवानां तदा कलकलोऽभवत् ।। २११ ।।। रामेण सह गोविन्दः किमेततिति संभ्रमात् । धावितः पुरतोऽद्राक्षीत्तमुक्षाणं महौजसम् ।। २१२ ।। कश्चिदर्थो न नो गोभिर्न चाज्यैरपि तिष्ठ तत् । इति वृद्धैर्निषिद्धोऽपि कृष्ण आह्वास्त तं वृषम् ।।२१३ ।। विषाणे उन्नमय्योच्चैराकुचितमुखो रुषा । उत्पुच्छयमानोऽरिष्टो गोविंदायाभ्यधावत ॥ २१४ ॥ तं श्रृंगयोर्गृहीत्वाशु वालयित्वा च तद्गलम् । विधाय च निरुच्छ्वासमरिष्टमवधीद्धरिः ॥२१५ ॥ मृस्याविव मृति नीतेऽरिष्टे हृष्टाः समंततः । आनर्चुवल्लवाः कृष्णं सतृष्णास्तन्निरीक्षणे ।। २१६ ॥ कृष्णस्य क्रीडतोऽन्येधुः केशी कंसकिशोरकः । कीनाश इव दुष्टाशो विवृतास्यः समाययौ ।।२१७ ।। दंतैर्वत्सतरान् गृह्णन्निघ्नन् गोगर्भिणीः खुरैः । भीषणं हेषमाश्च स कृष्णेनात्यतय॑त ।। २१८ ॥ १ भाविनो वासुदेवस्य । २ अशुभम् । ३ वृषभम् । ४ कंसस्य किशोरकोऽश्वतरः । * गोपालानाम्
कसेन कृष्णप्रवृत्ति| परिज्ञानम् ।
|| १९५॥