________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९४॥
अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कंसेन
विनैव कारणं त्राता विना हेतुं च वत्सलः । विनानिमित्तं भर्ता त्वं हरिवंशैकमौक्तिकः ।। १९२ ।। अद्यापराजितादेतद्भरतक्षेत्रमुत्तमम् । शर्मणे यत्र लोकस्य बोधिदस्त्वमवातरः ।। १९३ ॥ नित्यं भजंतु त्वत्पादा मानसे मम हंसताम् । चरितार्था भवतु च त्वद्गुणस्तवनेन गीः ।। १९४ ॥ इति स्तुत्वा जगन्नाथमादाय च पुरंदरः । मुमोच श्रीशिवादेवीपार्वे नीत्वा यथास्थिति ।। १९५ ॥ स्वामिनोऽप्सरसो धात्रीः पंचादिश्याथ वासवः । कृत्वा नंदीश्वरे यात्रां निजं स्थानमुपाययौ ।। १९६ ।। प्रातरर्कमिवोधतं प्रेक्ष्य पुत्रं महाद्युतिम् । जन्मोत्सवं प्रमुदितः समुद्रविजयोऽकरोत् ।।१९७ ।। स्वप्नेऽरिष्टमयी दृष्टा चक्रधारात्र गर्भगे । मात्रा तस्यारिष्टनेमिरित्याख्यां तत्पिता व्यधात् ।। १९८ ॥ अरिष्टनेमिनो जन्म श्रुत्वा हर्षप्रकर्षतः । मथुरायां वसुदेवादयश्चक्रुर्महोत्सवम् ।। १९९ ।। वसुदेवगृहेऽन्येधुर्देवकी द्रष्टुमागतः । तां छिन्नैकघ्राणपुटां कंसः कन्यामुदैवत ॥२०० ॥ भीतोऽथ कंसो वेश्मैत्यापृच्छन्नैमित्तिकोत्तमम् । सप्तमाद्देवकीगर्भान्मुनिनोक्तं वृथाथ न ।। २०१ ॥ नैमित्तिकोऽप्यभाषिष्ट न मृषा ऋषिभाषितम् । सप्तमो देवकीगर्भः क्वचिदस्ति तवांतकृत् ।। २०२ ।। अरिष्टो यस्तवोक्षास्ति केशी नाम महाहयः । खरमेषौ च दुर्दातौ मुंच वृन्दावनेऽथ तान् ।। २०३ ॥ गिरिसारानप्यमूनु यस्तत्र क्रीडन् यदृच्छया । हनिष्यति स हंता ते देवक्याः सप्तमः सुतः ।। २०४ ।। अन्यच्च यक्रमायातं शाङ्ग धन्व त्वदोकसि । पूज्यमानं त्वज्जनन्या स एवारोपयिष्यति ।। २०५ ।।
कृष्णप्रवृत्तिपरिज्ञानम् ।
। १९४॥