SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ।।१९३॥ | अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । एत्य शक्रः पंचरुपो रुपेणैकेन च प्रभुम् । आददे चामरे द्वाभ्यामेकेन छत्रमुज्वलम् ।। १८१ ॥ एकेनोल्लालयन् वज्रं बलान्नर्तकवत्पुरः । जगाम मेरुशिखरेऽतिपांडुकंबलां शिलाम् ।। १८२ ।। ॥युग्मम् ।। स्वांके स्वामिनमारोप्य सिंहासन इवोच्चकैः । अधिसिंहासनं तत्र निषसाद पुरंदरः ।। १८३ ॥ अथाच्युतप्रभृतयः सुरेन्द्रास्तत्र च क्षणात् । जिनेन्द्रं स्नपयामासुस्त्रिषष्टिरपि भक्तितः ।। १८४ ।। ईशानांके स्थापयित्वा शक्रोऽपि स्वामिनं ततः । विधिनास्नपयद्दिव्यैश्वानर्च कुसुमादिभिः ।। १८५ ।। विधायारात्रिकं भर्तुः प्रणम्य च कृतांजलिः । इति स्तोतुं समारेभे भक्तिनिर्भरवाग्धरिः ॥ १८६ ॥ शिवगामिन् शिवाकुक्षिशुक्तिमुक्तामणे प्रभो । शिवानामेकनिलय भगवंस्त्वं शिवंकरः ।। १८७ ।। तुभ्यमभ्यर्णमोक्षाय समक्षाशेषवस्तवे । विविधर्द्धिनिधानाय द्वाविंशायार्हते नमः ।। १८८ ।। हरिवंशः पवित्रोऽयं पवित्रा भारती च भूः । यस्मिंश्चरमदेहस्त्वमवातारीजगद्गुरो ॥ १८९ ॥ कृपाया एक आधारो ब्रह्मणश्चैकमास्पदम् । ऐश्वर्यस्याश्रयश्चैकस्त्वमेव त्रिजगद्गुरो ।। १९० ॥ भवतो दर्शनेनैवातिमहिम्ना जगत्पते । देहिनां मोहविध्वंसाद्देशनाकर्म सिध्यति ।। १९१ ॥ १ कल्याणानाम् । २ समक्षाणि प्रत्यक्षाणि समग्रवस्तूनि यस्य तस्मै । ३ ब्रह्मचर्यस्य । श्रीनेमिनाथ | जन्मोत्सवः । || १९३॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy