________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९२॥
| अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
गायंतीषु च गोपीषु कृष्णगोपे च नृत्यति । हस्ततालं ददौ रामो रंगाचार्य इवोद्भटः ।। १६८ ॥ एवं च क्रीडतोस्तत्र गोपयो रामकृष्णयोः । एकादश समा जग्मुः सुषमाकालवत् सुखम् ।। १६९ ॥ इतश्च श्रीसूर्यपुरे समुद्रविजयप्रिया । शिवापश्यन्निशाशेषे महास्वप्नांश्चतुर्दश ।। १७० ।। गजोक्षसिंहश्रीदामचंद्रार्कध्वजावार्घटा । पद्मसरोऽब्धिविमानरत्नपुंजामयस्तु ते ॥ १७१ ॥ तदा च कार्तिके कृष्णद्वादश्यां त्वाष्ट्रगे विधौ । च्युत्वापराजिताच्छंखः शिवाकुक्षाववातरत् ।। १७२ ।। नारकाणामपि सुखमुद्योतश्च जगत्त्रये । तदाभूदावश्यकं हि कल्याणेष्वर्हतामदः ।। १७३ ॥ प्रबुद्धा च शिवादेवी पत्युः स्वप्नान् शशंस तान् । स्वप्नार्थं प्रष्टुमाहूतः क्रोष्टुकिस्तत्र चाययौ ।। १७४ ।। चारणश्रमणश्चैकस्तत्र स्वयमुपाययौ । नृपेणोत्थाय सोऽवंदि न्यषादि च महासने ।। १७५ ॥ सक्रोष्टुकिमुनिः पृष्ो राज्ञा स्वप्नफलं तदा । आख्याद्यते सुतो भावी तीर्थकृन्त्रिजगत्पतिः ।। १७६ ॥ इत्याख्याय जगामर्षी राजा राज्ञी च तौ मुदम् । बिभरांचक्रतुर्भूरि स्नाताविव सुधारसैः ।। १७७ ।। देवी च धारयामास गर्भ गूढं सुखावहम् । प्रत्यंगमपि लावण्यसौभाग्योत्कर्षदायिनम् ।। १७८ ॥ श्रवणश्वेतपंचम्यां निशीथे त्वाष्ट्रगे विधौ । सा देवी सुषुवे सूनुं कृष्णाभं शंखलांछनम् ॥१७९ ।। षट्पंचाशद्दिक्कुमार्यः स्वस्वस्थानेभ्य एत्य ताः । चक्रिरे सूतिकर्माणि शिवादेवीजिनेन्द्रयोः ॥ १८० ।। १ चित्रानक्षत्रस्थिते । २ चन्द्रे । जलकलशः ।
श्रीनेमिनाथ जन्म ।
|| १९२॥