________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९१॥
अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
गच्छतो मत्तवृषभान् पुछे जग्राह केशवः । रामो भ्रातृबलं जानन्नुदासीन इवैक्षत ।। १५५ ॥ यथा यथा हि ववृधे कृष्णस्तत्र तथा तथा । गोपीनां मान्मथो जज्ञे विकारस्तन्निरीक्षणात् ।। १५६ ।। तं मध्येकृत्य हल्लीसं चक्रुर्गोपालयोषितः । भ्रमंत्यः परितोऽम्भोज भ्रमर्य इव निर्भरम् ॥ १५७ ॥ तं पश्यंत्यो यथा गोप्यो नयने न ह्यमीलयन् । कृष्ण कृष्णेति जल्पंत्यस्तथैवोष्ठपुटे अपि ।। १५८ ॥ कृष्णे गतमनस्कत्वात् पतिता अपि दोहेनीः । अजानंत्यो गवां दोहं भुवि चक्रुः कदापि ताः ।। १५९ ।। कृष्णं पराङ्मुखं यांतं सन्मुखीकर्तुमाशु ताः । अस्थानेऽनाटयंस्त्रासं त्रस्तत्राणपरो हि सः ।। १६० ।। सिंदुवारादिदामानि ग्रथित्वा गोपिकाः स्वयम् । स्वयंवरनज इव निदधुः कृष्णवक्षसि ।। १६१ ।। स्खलितं गीतनृत्यादौ चक्रुस्ता बुद्धिपूर्वकम् । कृष्णाच्छिक्षापदेशेन प्रसादालापलिप्सवः ।। १६२ ।। येन तेन प्रकारेण जजल्पुः पस्पृशुश्च तम् । अगोपितविकारास्ता गोपेंद्र गोपयोषितः ।। १६३ ।। मयूरपिच्छाभरणः कृष्णो गोपालगुर्जरीः । गोपालीभिरविच्छिन्नं पूर्यमाणश्रुतिर्जगौ ।। १६४ ।। कृष्णोऽत्यगाधवारिस्थान्यपि पद्मानि लीलया । तरन् हंस इवोद्धृत्य गोपीभ्योऽदत्त याचितः ।।१६५ ॥ दृष्टो हरति नश्चित्तमदृष्टो जीवितं पुनः । भवद्भातेत्युपालंभं ददू रामाय गोपिकाः ।। १६६ ॥ गिरिश्रृंगस्थितो वेणुं वादयन्मधुरस्वरम् । नृत्यंश्च हासयामास रामं रामानुजो मुहुः ।।१६७ ॥ १ क्रीडाविशेषम् । २ दुग्धधारा । ३ गुर्जरी रागविशेषः । ४ वाद्यविशेष । लोके 'वांसळी' ।७ वृक्षविशेषः । लोके 'नगोड' ।
कृष्णगोपीनाम् स्नेहः ।
॥ १९१॥