________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९ ॥
| अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
वल्लवैर्वल्लवीभिश्च सोऽत्यंत प्राणवल्लभः । उरस्यके शिरसि चारोप्यते स्म दिवानिशम् ।। १४२।। जग्नह दधिसाराणि मंथनीभ्यः स चापलात् । अवार्यमाणः स्नेहा¥र्गापैस्तत्कौतुकेक्षुभिः ।। १४३ ॥ व्याहरन् विहरन् वापि प्रहरन्नाहरन्नपि । यशोदानंदगोपानामानंदाय बभूव सः ।। १४४ ।। अपायभीतास्ते धर्तुं तं यांतं जातु नाशकन् । अन्वयुः केवलं स्नेहगुणपाशनियंत्रिताः ।।१४५ ॥ दशार्होऽप्यश्रृणोत्तेन हते शकुनिपूतने । पर्यस्तं शकटं भग्नौ तौ चापि यमलार्जुनौ ।। १४६ चिंतयामास चैवं स गोपितोऽपि मया सुतः । स्वौजसा प्रथमानोऽस्ति मा ज्ञासीत् कंस एष तम् ॥ १४७ ॥ ज्ञात्वापि किंच मालं भूत् कर्तुं सोऽस्मिन्नमंगलम् । ततः कृष्णस्य साहाय्ये सुतेभ्यः प्रेषयामि कम् ।।१४८ ॥ अक्रूराद्याः क्रूरबुद्धेः कंसस्य विदिताश्च ते । आदेष्टुं साधु रामस्तदद्याप्यविदितोऽस्य सः ।। १४९ ।। निश्चित्यैवं कोशलाया रोहिणी रामसंयुताम् । शौरिरानाय्य संभाष्य प्रैषीच्छौर्यपुरे पुरे ।। १५० ॥ राममाहूय सोऽन्येधुः कथयित्वा यथातथम् । शिक्षां दत्वा सुतत्वेनार्पयन्नंदयशोदयोः ।। १५१ ॥ तौ द्वौ दशधनुस्तुंगौ रेमाते सुंदराकृती । निर्निमेषं वीक्ष्यमाणौ गोपीभिर्मुक्तकर्मभिः ।। १५२ ॥ कृष्णोऽध्यैष्ट धनुर्वेदमन्या अप्यखिलाः कलाः । रामस्य पार्चे गोपोपनीतोपकरणः सदा ॥ १५३ ।। कदाचित् सुहृदौ भूत्वा शिष्याचार्यो कदापि तौ । विविधं विचिचेष्टाते क्षणमप्यवियोगिनौ ।। १५४ ॥ १ गोपैः । २ नवनीतानि । ३ मंथनपात्रम्, लोके 'गागर' ।४ गुण-रज्जु ।
कृष्णस्य कलाग्रहणम् ।
|| १९०॥