________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८९॥
अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
मूषितोऽस्मीति जल्पंश्च कृष्णमके निधाय सः । साक्षेपमूचे गोपालान् पर्यस्तः शकटं कथम् ।।१२८ ।। राक्षस्याविव रक्तास्ये के चैते गतजीविते । वत्सो ममायमेकाकी स्व भाग्येनैव जीवितः ।। १२९ ।। गोपा अप्यूचिरे स्वामिन् बालेन बलिना तव । पर्यस्तं शकटमिदमेते चैकेन मारिते ॥ १३० ।। तच्छुत्वा नंदः प्रैक्षिष्ट सर्वेष्वंगेषु केशवम् । अक्षतांगं च तं प्रेक्ष्य यशोदामित्यभाषत ।। १३१ ।। कथमेकाकिनं पुत्रं मुक्त्वा यास्यन्यकर्मसु । स्तोकान्मुक्तोऽयमद्यैवापायेषु निपतन्निह ।। १३२ ।। सर्पिर्घटेष्वपि लुठत्सूजित्वा कृष्णमेककम् । न त्वया क्वापि गंतव्यं पर्याप्तं तेऽन्यकर्मभिः ।। १३३ ।। इति श्रुत्वा यशोदापि हा हतास्मीति भाषिणी । आनाना पाणिना वक्षोऽभ्येत्य कृष्णमुपाददे ।। १३४ ।। न क्षतोऽसीति पृच्छंती सर्वांगेक्षणपूर्वकम् । कृष्णं चुचुंब शिरसि यशोदा सस्वजे च तम् ॥१३५ ॥ आदरेण यशोदा तं नित्यं स्वयमधारयत् । उत्साहशीलः कृष्णस्तु छलेनेतस्ततो ययौ ।। १३६ ।। दाम्नोदरेऽन्यदा कृष्णं तद्दातमांतमुदूखले । बद्ध्वा तद्यानभीता सा प्रातिवेश्मगृहे ययौ ।। १३७ ।। तदा च सूर्पकसुतो वैरं पैतामहं स्मरन् । तत्रैत्यान्योऽन्यमासन्नयमलार्जुनतां ययौ ।। १३८ ।। कृष्णं सोदूखलं पेष्टुं स तयोश्चांतरेऽनयत् । भक्त्वार्जुनतरु जघ्ने कृष्णदेवतयाथ सः ॥ १३९ ॥ कलभेनेव कृष्णेनोन्मूलितौ यमलार्जुनौ । इति गोपमुखाच्छ्रुत्वा नंदोऽभ्यागाद्यशोदया ।। १४० ॥ तौ धूलिधूसरं कृष्णं मोहान्मुर्जि चुचुंबतुः । दामोदरेत्यूचिरे च तं गोपा दामबंधनात् ।। १४१ ॥ १ लोके 'खांडणियो' ।२ विष्णोः शत्रुः ।
देवताभिः कृष्णस्य रक्षणम्।
।। १८९ ॥