________________
त्रिषष्टिशलाकापुरुषचरिते 11१८८॥
| अष्टमं पर्व
पञ्चमः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कृष्णांगत्वात् कृष्ण इति नाम्नाहूतः स बालकः । रक्ष्यमाणो देवताभिर्ववृधे नन्दवेश्मनि ।। ११६ ।। देवकी तु गते मासे वसुदेवमभाषत । द्रष्टुमुत्कंठिता पुत्रं तत्र यास्यामि गोकुले ।। ११७ ।। ऊचे शौरिरकस्मात्त्वं यांती कंसेन लक्ष्यसे । उत्पाद्य कारणं तस्माद्गंतुं देवकि युज्यते ।। ११८ ॥ ततोऽन्विता बहुस्त्रीभिः सर्वतो गोपथेन गाः । अचंती गोकुलं गच्छेर्देवक्यपि तथाकरोत् ।। ११९ ।। श्रीवत्सलांछितोरस्कं नीलोत्पलदलद्युतिम् । उत्फुल्लपुंडरीकाक्षं चक्राद्यंककरक्रमम् ।। १२० ।। नीलरत्नमिवोन्मृष्टं यशोदोत्संगवर्तिनम् । ददर्श हृदयानंदं नंदनं तत्र देवकी ।। १२१ ।।
॥युग्मम् ॥ गोपूजाव्याजतो नित्यं ययौ तत्र च देवकीः । ततः प्रभृति गोपूजाव्रतं प्रववृते जने ।। १२२ ।। तदा च पितृवैरेण सूर्पकस्यात्मजे उभे । वसुदेवापकारायाक्षमे शकुनिपूतने ।। १२३ ॥ शाकिन्याविव पापिष्ठे यशोदानंदवर्जितम् । कृष्णमेकाकिनं हंतुमीयतुस्तत्र गोकुले ।। १२४ ।।
॥युग्मम् ।। शकुनिः शकटारुढाधःस्थे कृष्णे कटु व्यरौत् । विषलिप्तं पूतना तु स्तनं कृष्णाननेऽक्षिपत् ॥ १२५ ॥ कृष्णसान्निध्यकारिण्यो देवतास्तत्क्षणादपि । तेनैव शकटेनोभे ते प्रहत्य व्यपादयन् ।। १२६ ॥ नंदस्तत्रागतोऽपश्यत् कृष्णमेकाकिनं स्थितम् । पर्यस्तं शकटं तच्च खेच? ते च मारिते ॥ १२७ ।।
देवताभिः कृष्णस्य रक्षणम् ।
|| १८८॥