________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८७॥
अष्टम पर्व पञ्चमः
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
कृष्ण
जातं जातं सुतं मेऽसौ हंति तन्माययाप्यमुम् । रक्ष पुत्रं न मायापि पाप्मने भ्रूणरक्षणात् ॥ १०३ ॥ नंदस्य गोकुले नीत्वा मुंचेमं मम बालकम् । गृहे मातामहस्येव तत्र वर्धिष्यते ह्यसौ ।। १०४ ।। साधु साध्विति तां जल्पन् स्नेहानॊ यदुपुंगवः । बालमादाय निरगात्तद्गृहात् सुप्तयामिकात् ।। १०५ ॥ दधुस्तस्योपरि च्छत्रं पुष्पवृष्टिं च चक्रिरे । उद्दडैरष्टभिर्दीपैर्मार्गोद्योतं च देवताः ।। १०६ ।। धवलर्षभरुपेण भूत्वाग्रे तस्य देवताः । द्वाराण्युद्घाटयामासुः पुर्या अन्यैरलक्षितम् ॥ १०७ ।। प्राप्तश्च गोपुरे शौरिरुग्रसेनेन भूभुजा । पृष्टश्च पंजरस्थेन किमेतदिति विस्मयात् ।। १०८ ।। कंसस्य प्रत्यनीकोऽयमिति शौरिस्तमर्भकम् । दर्शयन्नुग्रसेनाय सहर्षमिदमभ्यधात् ।। १०९ ।। त्वदिद्वषो निग्रहोऽमुष्मादमुष्माच्च तवोदयः । भविष्यति परं राजेन्नाख्येयं कस्यचित्वया ।। ११० ॥ एवमस्त्विति तेनोक्ते शौरिनंदगृहे ययौ । नंदभार्या यशोदापि तदैव सुषुवे सुताम् ।। १११ ।। सुतं दत्वा यशोदायै शौरिरादाय तत्सुताम् । आनीय देवकीपार्थे सुतस्थानेऽमुचत् क्षणात् ॥ ११२ ॥ शौरिश्च निर्ययौ ते च प्रबुद्धाः कंसपूरुषाः । किं जातमिति जल्पंतो ददृशुस्तत्र तां सुताम् ।। ११३ ॥ तां कंसस्यार्पयंस्तेऽथ दध्यौ कंसोऽपि यो मम । मृत्यवे सप्तमो गर्भः स स्त्रीमात्रमभूदसौ ॥११४ ॥ मन्ये मुनिवचो मिथ्या तया किं हतयेति सः । छिन्ननासापुटां कृत्वा देवक्यास्तां समार्पयत् ॥ ११५ ॥ १ गर्भरक्षणात् २ न आख्येयं ।
वासुदेवस्य जन्म गोकुले स्थापनं च ।
॥ १८७॥