________________
त्रिषष्टिशलाका
पुरुषचरिते 11928 11
अतिमुक्तश्चारणर्षिः सुलसायास्तु शैशवे । आचख्यौ यदसौ बाला निंदुरेव भविष्यति ।। ९० ।। तया च तपसाराधि नैगमेषी हरेः सुरः । तुष्टश्च याचितः पुत्रानूचे ज्ञात्वा तु सोऽवधेः ।। ९१ ॥ अहं हि देवकीगर्भान् हंतुं कंसेन याचितान् । निंदोस्ते गर्भसंचारादर्पयिष्यामि धार्मिके ।। ९२ ।। इत्युक्त्वा निजशकत्या स देवकीसुलसे समम् । रजस्वले व्यधात्ते च समं गुर्ख्यौ बभूवतुः ।। ९३ । समं च सुषुवाते ते मृतं गर्भं च सौलसम् । संचार्य देवकीगर्भं सुलसायाः सुरो ददौ ।। ९४ ।। एवं तयोस्तु षड्गर्भान् स सुरः पर्यवर्तयत् । कंसोऽपि निंदुगर्भांस्तान् दृषेद्यास्फालयद्दृढम् ।। ९५ ।। षट् च ते देवकीगर्भाः सुलसायाः स्वपुत्रवत् । गृहे सुखमवर्धंत तस्या एव स्तनंधयाः ।। ९६ ।। नाम्नानीकयशोऽनंतसेनावजितसेनकः । निहतारिर्देवयशाः शत्रुसेनश्च ते त्वमी ।। ९७ ।। अथ देवक्यृतुस्नाता सिंहार्काग्निगजध्वजान् । विमानपद्मसरसी निशांते स्वप्नमैक्षत ॥ ९८ ॥ च्युत्वा शुक्राद्गंगदत्तस्तस्याः कुक्षाववातरत् । गर्भं च धारयामास रत्नमाकरभूरिव ।। ९९ ॥ पुत्रं नभः सिताष्टम्यां निशीथेऽसूत देवकी । कृष्णं सदेवसान्निध्यं शत्रुदृक्पातघातिनम् ।। १०० ।। तद्गृह्या देवताः कंसायुक्तान् यामिकपूरुषान् । स्वशक्त्या स्वापयामासुरुपभुक्तविषानिव ।। १०१ ।। देवक्यवोचदाहूय पतिं कंसेन पाप्मना । अमित्रेण मित्ररुपेणासि वाचा नियंत्रित ।। १०२ ।। १ निंदुर्मृतवत्सा । २ शिलोपरि । ३ श्रावण शुक्ल अष्टम्याम् । + सुलसायाः अयं सौलसः तं तथा ।
अष्टमं पर्व पञ्चमः
सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
सुरेण
देवकीषट्गर्भाणाम् सुलसायां
संहरणम् ।
॥ १८६ ॥