SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ।।१८५॥ अष्टमं पर्व पञ्चमः | सर्गः श्रीअरिष्टनेमिजिन चरितम् । न यावत् कोऽपि जानाति तावदानकदुंदुभिम् । सप्तापि देवकीगर्भान् याचे स्वयमनागतान् ।।७७ ।। याचितो देवकीगर्भान् न चेद्दास्यति मे सुहृद् । तदान्यथा यतिष्येऽहं यथा स्यात् क्षेममात्मनः ।। ७८ ॥ विचिंत्यैवं मदावस्थां नाटयन्नमदोऽपि सः । जगामोपवसुदेवं दूराद्विरचितांजलिः ॥७९ ।। अभ्युत्थाय दशार्हस्तमर्हति स्म यथोचितम् । स्वपाणिना परामृश्य ससंभ्रममुवाच च ।। ८० ।। सुहृत्प्राणप्रियो मेऽसि किंचिद्वक्तुमना इव । प्रेक्ष्यसे च तदाचक्ष्व यद्ब्रवीषि करोमि तत् ।। ८१ ॥ जगाद प्रांजलिः कंसः कृतार्थोऽग्रेऽप्यहं सखे । जरासंधाजीवयशोदापनेन कृतस्त्वया ॥ ८२ ।। सप्तेतो देवकीगर्भाज्जातमात्रान्ममार्पयेः । वसुदेवोऽप्यूजुमनास्तत्तथा प्रत्यपद्यत ।। ८३ ॥ वृत्तानभिज्ञा देवक्यप्यभ्यधादेवमस्त्विदम् । वसुदेवसुतानां च त्वत्सूतानां च नातरम् ॥ ८४ ॥ त्वयैव ह्यावयोर्योगो व्यधायि विधिनेव भोः । किमद्यानधिकारीव हे कंस व्याकरोष्यदः ।। ८५ ।। दशा.ऽप्यवदत् सुभ्र पर्याप्तं बहुभाषितैः । जातमात्राः सप्त गर्भाः कंसायत्ता भवंतु ते ॥ ८६ ।। प्रसादोऽयं ममेत्यूचे कंसः क्षीबोपदेशतः । समं दशार्हेण सुरां पीत्वा च स्वगृहं ययौ ।। ८७ ।। अौषीन्मुनिवृत्तांतं पश्चादानकदुंदुभिः । कंसेन च्छलितोऽस्मीति सत्यवागन्वतप्यत ।। ८८ ॥ इतश्च भद्दिलपुरे श्रेष्ठीभ्यो नाग इत्यभूत । श्रेष्ठिनी सुलसा नाम परमश्रावकौ च तौ ।। ८९ ॥ १ कंसाधीनाः ।२ क्षीबो मत्तस्तस्यापदेशतो मिषतः । * इभ्यः - धनवान् । कंसेन छाना वसुदेवदेवकीप्रतारणम् । ।। १८५॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy