________________
त्रिषष्टिशलाकापुरुषचरिते ।।१८४॥
अष्टमं पर्व | पञ्चमः | सर्गः श्रीअरिष्ट
नेमिजिन
चरितम् ।
देवकी वसुदेवाय नादां तद्विरहासहः । तच्छ्रुत्वा व्यषदद्देवी रुरोदोच्चैश्च देवकी ।। ६४ ।। देवकोऽपि तयोर्भावं सम्यग्ज्ञात्वैवमब्रवीत् । अलं विषादेन युवां प्रष्टुं ह्यहमिहागमम् ।। ६५ ॥ देव्यप्यूचे वसुदेवो देवक्या उचितो वरः । पुण्यैरस्याः स्वयमसावागाद्वरणहेतवे ।। ६६ ।। इत्युक्तो देवकः कंसवसुदेवौ स्वमंत्रिणा । सद्यः समानयामास स्वयं पूर्वापमानितौ ॥६७ ॥ जज्ञे विवाहः पुण्येऽहिन देवकीवसुदेवयोः । तारतारं गीयमानैर्नवैर्धवलमंगलैः ।।६८ ॥ देवको वसुदेवाय ददौ स्वर्णादि भूरिशः । दशगोकुलनाथं च नंदं गोकोटिसंयुतम् ।। ६९ ।। दशार्हकंसौ मथुरामीयतुनन्दसंयुतौ । सुहृद्विवाहोपज्ञं चारेभे कंसो महोत्सवम् ।। ७० ॥ पूर्वोपात्तव्रतश्चातिमुक्तः कंसानुजो मुनिः । तपःकृशांगः कंसौकस्यागात् पारणहेतवे ।। ७१ ।। तदा जीवयशाः कंसपत्नी मद्यवशंवदा । साधूत्सवदिनेऽमुष्मिन् देवरासि समागतः ।। ७२ ॥ नृत्य गाय मया सार्धमित्यादि बहुधा तया । कंठे लगित्वा स मुनिरकदर्थि गृहस्थवत् ॥७३ ॥ सोऽपि ज्ञानी शशंसैवं यन्निमित्तोऽयमुत्सवः । तद्गर्भः सप्तमो हंता पतिपित्रोस्त्वदीययोः ॥ ७४ ।। तां वाचं स्फुर्जथुनिभां श्रुत्वा जीवयशा द्रुतम् । भयाद्गतमदावस्था तं मुमोच महामुनिम् ।। ७५ ॥ गत्वा कंसाय साचख्यौ कंसोऽप्येवमचिंतयत् । मोघीभवेद्वज्रमपि न पुनर्मनिभाषितम् ॥ ७६ ॥ १ वज्रधातसदृशीम् ।
वसुदेवदेवक्योविवाहः ।
|| १८४॥