________________
त्रिषष्टिशलाकापुरुषचरिते ।। १८२ ।।
ततो ययुः स्वकार्याय सिद्धार्था वलितास्तु ते । तं दृष्ट्वा जगृहुः स्नेहाद्वैताढ्याद्रौ च निन्यिरे ।। ३७ । तैर्देवैः स्तंभितच्छायः सोऽशोकस्तत्प्रभृत्यपि । छायावृक्ष इति ख्यातो बभूव पृथिवीतले ।। ३८ ॥ जृंभकैः पालितो बालः स वैताढ्याद्रिकन्दरे । शिक्षितश्चाष्टवर्षः सन् विद्याः प्रज्ञप्तिकादिकाः ।। ३९ ॥ ताभिश्च व्योमगमनो नवमो नारदो मुनिः । एतस्यामवसर्पिण्यामयं चरमविग्रहः ।। ४० ।। मुनिना सुप्रतिष्ठेन त्रिकालज्ञानशालिना । उत्पत्तिर्नारदमुनेरियं हि कथिता मम ॥ ४१ ॥ कलिप्रियः प्रकृत्यायमवज्ञातश्च कुप्यति । एकत्र चानवस्थायी सर्वत्रापि हि पूज्यते ॥ ४२ ॥ कंसेनान्येद्युराहूतः स्नेहादानकदुन्दुभिः । दशार्हेशमनुज्ञाप्य मथुरायां ययौ पुरि ॥ ४३ ॥ कंसस्तत्रान्यदा शौरिमूचे जीवयशोऽन्वितः । गरीयस्यस्ति नगरी नामनो मृत्तिकावती ॥ ४४ ॥ तस्यां मम पितृव्योऽस्ति देवको नाम भूपतिः । देवकी नाम तस्यास्ति देवकन्योपमा सुता ।। ४५ । गत्वा परिणयत्वं तामेषोऽस्म्यनुचरस्तव । मा मे प्रणययांचाया अमुष्याः खंडनं कृथाः ॥ ४६ ॥ दाक्षिण्यनिधिरित्युक्तो दशार्हो दशमः स तु । चचाल सह कंसेन मार्गे चैक्षिष्ट नारदम् ।। ४७ ।। विधिना शौरिकंसाभ्यामर्चितो नारदो मुनिः । प्रीतोऽपृच्छत् कुतो हेतोः कुत्र वा चलितौ युवाम् ॥ ४८ ॥ उवाच शौरिः कंसेन सुहृदा चालितोऽस्म्यहम् । परिणाययितुं कन्यां देवकीं देवकात्मजाम् ।। ४९ ।। जगाद नारदः साधु कंसेनारब्धमीदृशम् । निर्मायाप्यनुरूपाणां योगे धाताप्यपंडितः ।। ५० ।।
9 अंतिमशरीरी ।
अष्टमं पर्व
पञ्चमः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
नारदो
त्पत्तिः ।
11963 11