________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८१॥
अष्टमं पर्व पञ्चमः | सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
| वसुदेव
गजाब्धिसिंहशशिनो विशतो रोहिणी मुखे । स्वप्नेऽपश्यन्निशाशेषे हलभृजन्मसूचकान् ॥ २४ ॥ रोहिणी रोहिणीशाभं समये सुषुवे सुतम् । तस्य जन्मोत्सवं चक्रू राजानो मागधादयः ॥२५ ।। राम इत्यभिरामं च तस्य नामाकरोत् पिता । क्रमाच्च ववृधे रामः सर्वेषां रमयन् मनः ।।२६ ॥ जग्राह च कलाः सर्वा रामो गुरुजनांतिके । अम्लानप्रतिभादर्शसंक्रांतसकलागमः ।। २७ ।। अथान्यदा वसुदेवकंसादिपरिवारितम् । आगात् समुद्रविजयं स्वच्छंदो नारदो मुनिः ।। २८ ॥ समुद्रविजयः कंसो वसुदेवोऽपरेऽपि च । अभ्युत्थाय तमानचुरुद्यतमिव भास्करम् ।। २९ ।। तेषां च पूजया प्रीतः क्षणं स्थित्वा च नारदः । उत्पपातान्यतो गंतुं स्वैरचारी सदा हि सः ॥३०॥ कोऽसाविति च कंसेन पृष्टोऽवादीदिदं नृपः । पुरादस्माद्बहिर्यज्ञयशाः प्राक् तापसोऽभवत् ।।३१ ।। यज्ञदत्ता तस्य भार्या सुमित्रो नाम नंदनः । अभूत् पत्नी सुमित्रस्य नाम्ना सोमयशा इति ॥ ३२ ॥ मध्याभकदेवानां देवश्व्युत्वायुषः क्षये । आगात् सोमयशःकुक्षौ स जज्ञे चैष नारदः ॥ ३३ ॥ एकाहं तापसास्ते चोपोष्याहन्यपरे पुनः । उपेत्य वनमुछेन पारयति सदापि हि ॥३४ ॥ तेऽन्यदा ययुरुंछायाशोकद्रौ न्यस्य नारदम् । ददशुज़ुभकास्ते च तं बालमसमद्युतिम् ॥३५॥ प्राग्जन्ममित्रमवधेर्ज्ञात्वा ते नारदं तदा । अस्तंभयन्नशोकस्य छायां तदुपरिस्थिताम् ।। ३६ ।। १ रोहिण्या ईशश्चंद्रस्तत्समानामम् २ शीलोञ्छवृत्या । ३ अद्वितीयद्युतिम् ।
पुत्रत्वेन
बलदेवजन्म।
॥ १८१॥