________________
त्रिषष्टिशलाकापुरुषचरिते ।।१८०॥
अष्टमं पर्व पञ्चमः सर्गः श्रीअरिष्ट| नेमिजिनचरितम् ।
उद्विग्नौ श्रेष्ठिललितौ श्रेष्ठिन्याश्छन्नमेव तम् । स्नपयित्वाबोधयतां गंगदतं महामती ॥ ११ ॥ तदा च साधवस्तत्र भिक्षार्थं समुपागताः । पृष्टाश्च ताभ्यां श्रेष्ठिन्यास्तत्पुत्रद्वेषकारणम् ।। १२ ।। अथैकः साधुरित्याख्यदेकस्मिन् संनिवेशने । अभूतां भ्रातरौ तौ तु बहिः काष्ठार्थमीयतुः ॥ १३ ॥ काष्ठैर्भूत्वा तथा गंत्रीमग्रस्थो ज्येष्ठ आपतत् । ददर्श पथि वेल्लंती चक्लुंडा महोरगीम् ।। १४ ॥ सोऽप्यवोचत् कनीयांसं गंत्र्याः सारथिमग्रतः । गंत्रीतो रक्षणीयेयं चक्लुंडा वराकिका ।। १५ ॥ तच्छ्रुत्वा सर्पिणी सापि हृष्टा विश्वासभागभूत् । तत्रायातः कनिष्ठिस्तां दृष्ट्वा चैवमवोचत ।। १६ ॥ ज्येष्ठेन रक्षितास्तीय तथाप्यस्या उपर्यहम् । नेष्ये गंत्री श्रोतुमेतदस्थिभंगस्वरं मुदा ।। १७ ।। तथा चक्रे स च क्रूरस्तच्छ्रुत्वा सापि पन्नगी । कोऽप्येष मम वैरीति चिंतयंती व्यपद्यत ।। १८ ।। सा जज्ञे तव भार्येयं ज्येष्ठो भ्राता विपद्य सः । अस्याः सूनुर्ललितोऽभूत् प्रियः प्राग्जन्मकर्मणा ।। १९ ।। सोऽयं मृत्वा कनिष्ठोऽस्या अनिष्टः पूर्वकर्मणा । गंगदत्तः समुत्पेदे प्राक्तनं कर्म नान्यथा ॥२०॥ ततो विरक्ता जगूहुः पिता पुत्रौ च ते व्रतम् । जग्मतुः श्रेष्ठिललितौ महाशुक्रमुभौ दिवम् ।। २१ ।। तत्तु मातुरनिष्टत्वं गंगदत्तः पुनः स्मरन् । विश्ववाल्लभ्यनिदानी महाशुक्रदिवं ययौ ।। २२ ।। ततश्च ललितजीवो महाशुक्रात् परिच्युतः । वसुदेवस्य भार्याया रोहिण्या उदरेऽभवत् ।। २३ ।। १ लुठंतीम् । उक्षयानम्, लोके 'बलदगाईं।
बलदेवपूर्वभव
चरिते
गंगदत्तभवः।
|| १८०॥