________________
अष्टमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१७८॥
राजानं क्षमयित्वाथ वसुदेवस्तया सह । ययौ गगनयानेन पुरे गगनवल्लभे ।। ५० ॥ समुद्रविजयोऽप्यगात् स्वं पुरं कंससंयुतः । तस्थौ च वसुदेवस्यागमने नित्यमुन्मुखः ।। ५१ ।। पित्रा कांचनदंष्ट्रेण खेचरेन्द्रेण कल्पिताम् । चंद्रास्यां बालचंद्रां तु वसुदेव उपायत ॥ ५२ ।। पूर्वोढा वरयोषितो निजनिजस्थानादथादाय सोऽन्वीतो व्योमचरैः पदातिभिरिवात्युच्चैर्विमानस्थितः आगाच्छौर्यपुरं समुद्रविजयेनोत्कंठितेनादरादाश्लिष्टः प्रसर जोर्मिपयसां पत्येव शीतद्युतिः ।। ५३ ।।
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
| वसुदेवस्य
*
*
*
आगमनम् ।
इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमे पर्वणि वसुदेवहिंडिवर्णनो नाम
चतुर्थः सर्गः ।
|| १७८॥