________________
| अष्टमं पर्व | चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१७७॥
|सर्गः | श्रीअरिष्ट| नेमिजिनचरितम् ।
उत्तीर्य वसुदेवोऽपि न्यपतत्तस्य पादयोः । उध्धृत्य च समुद्रस्तं दो सपदि सस्वजे ।। ३७ ।। वत्स वर्षशतं क्वास्था इति पृष्टोऽग्रजन्मना । आचख्यौ वसुदेवस्तं वृत्तांतं सर्वमादितः ।।३८ ।। समुद्रविजयो भ्रात्रा तादृग्विक्रमशालिना । यथाहृष्यत्तथा तेन जामात्रा रुधिरोऽपि हि ॥३९॥ जरासंधः स्वसामंतबंधुं ज्ञात्वा च तं तथा । संप्राप कोपोपशमं मुदे हि स्वो गुणाधिकः ।। ४० ।। प्रसंगमिलितै राजस्वजनैर्जनितोत्सवः । जज्ञे विवाहः पुण्येऽह्नि रोहिणीवसुदेवयोः ॥४१ ॥ रुधिरेणार्चिता जग्मुर्जरासंधादयो नृपाः । यादवास्तत्र तस्थुस्तु वत्सरं कंससंयुताः ।। ४२ ॥ तत्रान्येधुर्वसुदेवोऽपृच्छद्रहसि रोहिणीम् । कथं त्वया नृपान्मुक्त्वा वृतः पाटहिकोऽप्यहम् ॥ ४३ ॥ साप्याचख्यौ सदा विद्यां प्रज्ञप्तिमहमार्चयम् । तयाख्यातं भविता ते दशार्हो दशमो वरः ॥ ४४ ।। ज्ञेयः पटहवाद्येन स त्वया तु स्वयंवरे । इति तत्प्रत्ययादेव त्वं वृतोऽसि मया तदा ॥ ४५ ॥ सभास्थितेषु चान्येधुः समुद्रविजयादिषु । काप्यर्धजरती यच्छंत्याशिषं खादातरत् ।।४६ ।। उवाच वसुदेवं सा बालचंद्राजनन्यहम् । नाम्ना धनवती पुत्र्याः कृते त्वां नेतुमागता ॥ ४७ ।। सा पुत्री बालचंद्रा मे पुत्रिका वेगवत्यपि । त्वंद्विप्रलंभविधुरे तिष्ठतस्ते दिवानिशम् ।। ४८ ॥ ऐक्षिष्ट वसुदेवोऽपि समुद्रविजयाननम् । राजाप्यूचे याहि परं मा स्म स्थाः पूर्ववच्चिरम् ।। ४९ ॥ १ स्वकीयः । २ गगनात् । ३ त्वद्वियोगविह्वले ।
| समुद्रविजय| वसुदेवयोमिलनम् ।
॥ १७७॥