________________
त्रिषष्टिशलाका
पुरुषचरिते ।।१७६ ।।
राजकन्या मयाप्याप्तेतीयतापि । वातास्तोच्चद्रुफलाप्त्या खर्वांग इव दृप्यति ॥ २४ ॥ ततो हमौ रुधिरतौर्यिकौ तूर्णमेव भोः । इत्युक्तास्ते युधेऽसज्जन् समुद्रविजयादयः ।। २५ ।। खेचरेन्द्रो दधिमुखः सारथीभूय स स्वयम् । रथेऽधिरोहयामास वसुदेवं रणोद्यतम् ।। २६ ।। ततो वेगवतीमात्रांगारवत्यार्पितान्यथ । आददे चापतूणानि शौरिः समरदुर्धरः ।। २७ ।। भग्नं च रुधिरबलं जरासंधस्य पार्थिवैः । वसुदेवो दधिमुखेनेरयामास वाजिनः ॥ २८ ॥ आदावप्युत्थितं शत्रुंजयं यदुवरोऽजयत् । दंतवक्रमभांक्षीच्च शल्यराजं बभंज च ।। २९ ।। जरासंधोऽथ साशंकं समुद्रनृपमब्रवीत् । न पाणविकमात्रोऽयमसाध्योऽन्यमहीभुजाम् ॥ ३० ॥ जह्येनं स्वयमुत्थाय हतेऽस्मिन् रोहिणी तव । सर्वेषां भंगवैलक्ष्यमपाकुरु महीभुजाम् ॥ ३१ ॥ समुद्रविजयोऽप्यूचे परदारैः कृतं मम । त्वदाज्ञया तु योत्स्येऽहमनेन सह दोष्मता ॥ ३२ ॥ इत्युक्त्वा युयुधे भ्रात्रा समुद्रविजयोऽपि हि । विश्वाश्चर्यकरं जज्ञे शस्त्राशस्त्रि चिरं तयोः ॥ ३३ ॥ को न्वसौ मेऽप्यलमिति दध्यौ यावदूत्तमः । वसुदेवः पुरस्तावत् साक्षरं बाणमक्षिपत् ।। ३४ ।। समुद्रस्तं गृहीत्वेषु तद्वर्णानित्यवाचयत् । वसुदेवो नमति त्वां निर्गतश्छद्मना तदा ।। ३५ ।। अथ हृष्टो दशार्हेशो वत्स वत्सेत्युदीरयन् । सायं गौरिव वत्सोत्का दधावे रथमुत्सृजन् ॥ ३६ ॥
१ वातेनास्तं क्षिप्तं यदुन्नतवृक्षफलं तस्य प्राप्त्या । २ वामनः ।
अष्टमं पर्व
चतुर्थः सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
समुद्रविजयवसुदेवयोर्मिलनम् ।
।। १७६ ।।