________________
| अष्टमं पर्व
| चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१७५॥
| सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कृतवेषांतरः शौरिर्मध्यस्थस्तूर्यवादिनाम् । वादयामास पटहमेवं पाठस्फुटाक्षरम् ।। ११ ।। एह्येहि मां कुरंगाक्षि कुरंगीव किमीक्षसे । तवानुरुपो भर्तास्मि त्वत्संगमसमुत्सुकः ।। १२ ।। तच्छ्रुत्वा रोहिणी रोहत्पुलका तन्निरीक्षणात् । स्वयंवरस्रजं कंठे वसुदेवस्य विन्यधात् ।। १३ ।। जज्ञे राज्ञां कलकलो हतैनमिति भाषिणाम् । अनया तौर्यिको वव्रे प्रहासश्चेत्यभूभृशम् ।।१४ ॥ रुधिरं कोशलाधीशो दंतवक्रोऽतिवक्रवाक् । सोपहासमुवाचैवं वैहासिक इवोच्चकैः ॥ १५ ॥ यदि पाणविकायेयं कन्यका दित्सिता त्वया । तत्कुलीनाः कुलीनेन किमाहूता अमी नृपाः ।। १६ ॥ गुणानभिज्ञा चेदेषा वृणुते तौर्यिकं नरम् । नोपेक्षणीयं तत्पित्रा पिता बाल्ये हि शासिता ।। १७ ॥ ऊचे च रुधिरस्तेऽलं विचारणामुना नृप । स्वयंवरे कन्यकानां प्रमाणं हि वृतो नरः ।। १८ ॥ अथोचे न्यायविदुरो विदुरः साध्विदं नृपः । तथापि युज्यते प्रष्टुं वर एष कुलादिकम् ।। १९ ॥ वसुदेवोऽवदत् कोऽयं प्रस्तावः कुलकीर्तने । वृतोऽहमनया यस्माद्यादृशस्तादृशोऽपि सन् ।। २० ।। असहिष्णुर्ममेमां योऽपहरिष्यति तस्य तु । कथयिष्यामि दोर्वीर्यदर्शनेनात्मनः कुलम् ॥२१॥ जरासंधो निशम्याथ वचस्तस्येदमुद्धतम् । इत्यादिक्षन्नृपान् क्रुद्धः समुद्रविजयादिकान् ।। २२ ॥ राजविप्लवकृत्तावद्रुधिरोऽयं नृपाधमः । द्वितीयोऽयं पाणविको मत्तः पणववादनात् ।। २३ ॥ १ तूर्यवादयिता । २ विदूषकः । ३ दातुमिष्य । ४ न्यायचतुरः । तूर्यविशेषवादकः, लोके 'ढोली' ।
राजकन्यारोहिण्या वसुदेववरणम् ।
|| १७५॥