SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अष्टम पर्व | चतुर्थः त्रिषष्टिशलाकापुरुषचरिते ।।१७४॥ चतुर्थः सर्गः । सर्गः श्रीअरिष्टनेमिजिनचरितम् । राजकन्यारोहिणी स्वयंवरः। सूर्पकेणान्यदा सुप्तः स जहेऽथ प्रबोधभाक् । जघान सूर्पक मुष्ठ्या सूर्पकस्तं मुमोच च ॥१॥ गोदायां पतितः शौरिस्ती, कोल्लापुरे ययौ । पद्मश्रियं पद्मरथराजपुत्रीं व्युवाह च ॥२॥ तत्रापि नीलकंठेन हृतो मुक्तश्च सोऽपतत् । चंपासरसि तत्तीर्खा मंत्रिपुत्रीमुपायत ॥३॥ ततो हृतः सूर्पकेण मुक्तो गंगाजलेऽपतत् । ततोऽप्युत्तीर्य विचरन् ययौ पल्ली सहाध्वगैः ॥ ४ ॥ पल्लीपतेर्जरां नाम कन्यां परिणिनाय च । अजीजनत्तत्र जरत्कुमारं नाम नंदनम् ।। ५ ।। सोऽवतिसुंदरी सुरसेनामथ नरद्विषम् । जीवयशसमपरांश्चोपयेमे नृपात्मजाः ॥ ६ ॥ गच्छंतमन्यदा मार्गे तमूचे देवता मया । दत्ता रुधिरराट्कन्या रोहिणी ते स्वयंवरे ॥७॥ त्वया तु पटहस्तत्र वाद्य इत्युदितस्तया । स जगामारिष्टपुरे स्वयंवरणमंडपम् ॥८॥ जरासंधप्रभृतिषु तत्रासीनेषु राजसु । आययौ रोहिणी साक्षाद्भुवं प्राप्तेव रोहिणी ॥९॥ ते स्वं रुरोचयिषवस्तस्यै तत्तच्चिचेष्टिरे । स्वानुरुपमपश्यत्यै न कोऽपि रुरुचे परम् ।।१०॥ १ वासुदेवः । रोचयितुमिच्छवः । || १७४॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy