________________
त्रिषष्टिशलाकापुरुषचरिते ॥१७३॥
नलो मृत्वा कुबेरोऽहमभूवं सा तु भीमजा । मत्प्रियाजनि सा च्युत्वा शौरे कनकवत्यभूत् ।। १९७२ ।। अस्याः प्राग्भवपत्नीत्वस्नेहातिशयमोहितः । इहागतोऽस्मि स्नेहो हि याति जन्मशतान्यपि ।। १०७३ ॥ अस्मिन्नेव भवे तावदियं कनकवत्यहो । दशार्ह कर्माण्युन्मूल्य निर्वाणं च गमिष्यति ।। १०७४ ।। सहेन्द्रेण वंदनाय गतस्यैतत्पुरा मम । महाविदेहे कथितं विमलस्वामिनार्हता ॥ १०७५ ।। इत्थं कनकवत्यास्तु कथां प्राग्भवसंगताम् । कुबेरो वसुदेवाय समाख्याय तिरोदधे ।। १०७६ ।।
अतिशयितचिरानुरागयोगात् कनकवतीमुपयम्य वृष्णिसूनुः । अरमत पुनरेव खेचरीभिः सुभगशिरोमणिरद्वितीयरुपः ।। १०७७ ।।
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
| वसुदेवकनकवत्योविवाहः।
इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्येऽष्टमे पर्वणि कनकवतीपरिणयनतत्पूर्वभववर्णनो नाम
तृतीयः सर्गः समाप्तः ।
|| १७३॥